Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 344
________________ ३१८ तत्त्वसंग्रहे प्रसिद्धस्त्विति। गवादयो हि शब्दा लोके जातिशब्दया प्रतीताः, चित्राङ्गदादयस्तु संज्ञाशब्दत्वेनेति पृथग्वचनम् ॥ १२२५॥ नान्वित्यादिना' परश्चोदयति नन्वन्यापोहवाच्यत्वाजातिशब्दस्तु केवलः। विवक्षापरतन्त्रत्वाद् यदृच्छाशब्द एव वा॥१२२६॥ सत्यमित्यदिना प्रतिविधत्ते सत्यं लोकानुवृत्त्येदमुक्तं न्यायविदेदृशम्। इयानेव हि शब्दोऽस्मिन् व्यवहारपथं गतः॥१२२७॥ इयानेव हति। पञ्चप्रकारः संज्ञाजातिगुणक्रियाद्रव्यशब्दभेदेन ।। १२२७ ॥ ननु यदि स्वमतसिंद्धैव कल्पनाऽभिप्रेता, किमर्थं तर्हि "अन्ये तु-अर्थशून्यैः शब्दैरेव विशिष्टोऽर्थ उच्यते" ( ) इत्यनेन ग्रन्थेन पृथक्स्वमतसिद्धा कल्पना पश्चादुपवर्णिताऽऽचार्येण? इत्याह ते तु जात्यादयो नेह लोकवद् व्यतिरेकिणः। इत्येतत्प्रतिपत्त्यर्थमन्ये त्वित्यादिवर्णितम्॥१२२८॥ जात्यादियोजनां येऽपि कल्पनां समुपाश्रिताः। तैरभ्युपेया नियतं प्रतीतिरभिलापिनी॥१२२९ ।। एतदुक्तं भवति-न शाबलेयादिव्यक्तिव्यतिरिक्ता जात्यादयः परमार्थिकाः सन्ति सांवृतास्त इत्यस्यार्थस्य प्रतिपादनार्थमुक्तमिदं लक्षणकारेण, नतु पृथगपरां कल्पनां दर्शयितुमिति। अन्य इति बौद्धाः। अर्थशून्यैरिति। जात्यादिनिरपेक्षैरपोहमात्रगोचरैः शब्दैः । इत्या चार्यग्रन्थ स्यार्थः ॥ १२२८-१२२९॥ न केवलमस्माभिरियमभिलापिनी प्रतीति: कल्पनाऽभ्युपगता, परैरप्यवश्यमभ्युपगन्तव्या'; अन्यथा जगदव्यवहार्यमेव स्यादिति दर्शन्नाह अन्यथा योजनाभावाद् युक्तयोरिव भावयोः। स्वातन्त्र्येण परिच्छेदात् कल्पना नैव कल्प्यते॥१२३०॥ एवं वा व्यवहार्यं स्यात् सर्वं विश्वमिदं ततः। जात्यादिरूपसंसृष्टं व्यवहार्यमिदं मतम्॥१२३१॥ जात्यादियोजना शब्दयोजनाऽव्यभिचारिणी। एवं चोच्यत इत्येतत् फलवज्जायते वचः॥१२३२॥ [G.372] जातिगुणक्रियाद्रव्ययोजनायामपि कल्पनायां परैरभ्युपगतायां नामयोजनैव कल्पना। तथा हि- तत्र जात्यादिव्यवच्छिन्नं वस्तु नाम्नैव विशिष्टं गृह्यते, अन्यथा हि स्वातन्त्र्येणानेकपदार्थग्रहणवद् योजनाभावात् कथं कल्पना भवेत्, ततश्च मूकमेव जगत् स्यात् । अत एव च दण्डयुक्तं पुरुषं पश्यन्नपि न तावद् दण्डीति योजयति यावन्न नामभेदं स्मरति; यत १. नन्वित्यादि-पा०, गा० । २. विवक्षाशब्द-पा०, गा०।। ३. ०दमव्यक्तं-जै०। ४. ०वश्याभ्युप०-पा०, गा०।

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444