Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 331
________________ ३०५ शब्दार्थपरीक्षा हि जात्यादिलक्षणस्य शब्दार्थस्य वस्तुनो निषिद्धत्वात्। यदयेवम्, कथं तहनन्यापोहशब्दादिभ्योऽपोहशब्दार्थनिषेधे मतिर्जायते? इत्याह- न शाब्दा इति। वितथविकल्पा-[G.356] भ्यासवासनाप्रभवतया हि केचन शाब्दाः प्रत्यया असद्भूतार्थाभिनिवेशिनो जायन्त एवेति न तद्वशाद्वस्तूनां सदसत्ता सिध्यति ॥ ११६४॥ यदुक्तम्- "प्रमेयज्ञेयशब्दादेः" (तत्त्व ९७८) इत्यादि, तत्राह प्रमेयज्ञेयशब्दादेः कस्यापोह्यं न विद्यते। न ह्यसौ केवलोऽकाण्डे प्रेक्षावद्भिः प्रयुज्यते॥११६५॥ कस्य प्रमेयादिशब्दस्यापोह्यं नास्तीत्यभिधीयते? यदि तावदवाक्यस्थं केवलं पदान्तरसम्बन्धरहितं प्रमेयादिशब्दमाश्रित्योच्यते, तदा सिद्धसाध्यता; केवलस्य प्रयोगाभावादेव निरर्थकत्वात् । तदर्शयति-न ह्यसौ केवलोऽकाण्ड इति। केवल इति अन्यशब्दरहितः। अकाण्डइति प्रस्तावमन्तरेण । यतः श्रोतृजनानुग्रहाय प्रेक्षावद्भिः शब्दः प्रयुज्यते न व्यसनितया, न च केवलेन सता श्रोतुरेकस्मिन् सन्देहविपर्यासनिवृत्तिलक्षणोऽनुग्रहः कृतो भवेत्। तथा हि- यदि श्रोतुः क्वचिदर्थे समुत्पन्नौ संशयविपर्यासौ निवर्त्य निःसन्दिग्धं प्रत्ययमुत्पादयेत् प्रतिपादकः, एवं तेनान्यानुग्रहः कृतो भवेत् ! न च केवलेन प्रयुक्तेन तथाऽनुग्रहः शक्यते वक्तुम् ॥ ११६५॥ तस्मात् संशयादिनिवर्त्तने निश्चयोत्पादने च श्रोतुरनुग्रहात् शब्दप्रयोगसाफल्यमिति वाक्यस्थस्यैवास्य प्रयोग इति दर्शयति किन्त्वारेकविपर्याससम्भवे सति कस्यचित्। क्वचित् तद्विनिवृत्त्यर्थं धीमद्भिः स प्रयुज्यते॥११६६॥ निःसन्देहविपर्यासप्रत्ययोत्पादनादतः । - तेनैव तैः प्रयुक्तेन साफल्यमनुभूयते॥११६७॥ आरेक:-संशयः । कस्यचिदिति श्रोतुः । क्वचिदिति अर्थे। तद्विनिवृत्त्यर्थमिति । तयोरारेकविपर्यासयोर्विनिवृत्त्यर्थम्। तेनेति ज्ञेयादिपदेन। तैरिति प्रेक्षावद्भिः ॥ ११६६-११६७॥ अथ वाक्यस्थमेव ज्ञेयादिशब्दमधिकृत्योच्यते, तदसिद्धमिति दर्शयति यत् तत्र जडचेतोभिराशङ्कास्पदमिष्यते। तदेव क्षिप्यते तेन विफलोच्चारणाऽन्यथा॥११६८॥ तत्र हि वाक्यस्थेन प्रमेयादिशब्देन यदेव जडचेतोभिः मन्दमतिभिराशङ्कयते, [G.357] तदेव निवर्त्यत इत्यतोऽसिद्धमेतत् प्रमेयादिशब्दानां निवर्त्य नास्तीति। अन्यथेति। यदि जडधीभिराशङ्कितं न निवर्तयेदित्यर्थः।। स्यादेतत्- नैव श्रोत्रा किञ्चिदाशङ्कितमित्याह किञ्चिद्ध्याशङ्कमानोऽसौ किमर्थं परिपृच्छति। अतत्संस्कारकं शब्दं ब्रुवन् वा स्वस्थधीः कथम्॥११६९॥ यदि हि श्रोता न क्वचिदर्थे संशेते तत्किमिति परस्मादुपदेशमपेक्षते, निश्चयार्थं हि परं १. शब्दादौ- पा०, गा०। .. २. नहि-पा०, गा० । ३. किञ्चिच्छङ्कित०- पा०, गा० ।

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444