________________
३०५
शब्दार्थपरीक्षा हि जात्यादिलक्षणस्य शब्दार्थस्य वस्तुनो निषिद्धत्वात्। यदयेवम्, कथं तहनन्यापोहशब्दादिभ्योऽपोहशब्दार्थनिषेधे मतिर्जायते? इत्याह- न शाब्दा इति। वितथविकल्पा-[G.356] भ्यासवासनाप्रभवतया हि केचन शाब्दाः प्रत्यया असद्भूतार्थाभिनिवेशिनो जायन्त एवेति न तद्वशाद्वस्तूनां सदसत्ता सिध्यति ॥ ११६४॥ यदुक्तम्- "प्रमेयज्ञेयशब्दादेः" (तत्त्व ९७८) इत्यादि, तत्राह
प्रमेयज्ञेयशब्दादेः कस्यापोह्यं न विद्यते।
न ह्यसौ केवलोऽकाण्डे प्रेक्षावद्भिः प्रयुज्यते॥११६५॥ कस्य प्रमेयादिशब्दस्यापोह्यं नास्तीत्यभिधीयते? यदि तावदवाक्यस्थं केवलं पदान्तरसम्बन्धरहितं प्रमेयादिशब्दमाश्रित्योच्यते, तदा सिद्धसाध्यता; केवलस्य प्रयोगाभावादेव निरर्थकत्वात् । तदर्शयति-न ह्यसौ केवलोऽकाण्ड इति। केवल इति अन्यशब्दरहितः। अकाण्डइति प्रस्तावमन्तरेण । यतः श्रोतृजनानुग्रहाय प्रेक्षावद्भिः शब्दः प्रयुज्यते न व्यसनितया, न च केवलेन सता श्रोतुरेकस्मिन् सन्देहविपर्यासनिवृत्तिलक्षणोऽनुग्रहः कृतो भवेत्। तथा हि- यदि श्रोतुः क्वचिदर्थे समुत्पन्नौ संशयविपर्यासौ निवर्त्य निःसन्दिग्धं प्रत्ययमुत्पादयेत् प्रतिपादकः, एवं तेनान्यानुग्रहः कृतो भवेत् ! न च केवलेन प्रयुक्तेन तथाऽनुग्रहः शक्यते वक्तुम् ॥ ११६५॥
तस्मात् संशयादिनिवर्त्तने निश्चयोत्पादने च श्रोतुरनुग्रहात् शब्दप्रयोगसाफल्यमिति वाक्यस्थस्यैवास्य प्रयोग इति दर्शयति
किन्त्वारेकविपर्याससम्भवे सति कस्यचित्। क्वचित् तद्विनिवृत्त्यर्थं धीमद्भिः स प्रयुज्यते॥११६६॥
निःसन्देहविपर्यासप्रत्ययोत्पादनादतः । - तेनैव तैः प्रयुक्तेन साफल्यमनुभूयते॥११६७॥
आरेक:-संशयः । कस्यचिदिति श्रोतुः । क्वचिदिति अर्थे। तद्विनिवृत्त्यर्थमिति । तयोरारेकविपर्यासयोर्विनिवृत्त्यर्थम्। तेनेति ज्ञेयादिपदेन। तैरिति प्रेक्षावद्भिः ॥ ११६६-११६७॥ अथ वाक्यस्थमेव ज्ञेयादिशब्दमधिकृत्योच्यते, तदसिद्धमिति दर्शयति
यत् तत्र जडचेतोभिराशङ्कास्पदमिष्यते।
तदेव क्षिप्यते तेन विफलोच्चारणाऽन्यथा॥११६८॥ तत्र हि वाक्यस्थेन प्रमेयादिशब्देन यदेव जडचेतोभिः मन्दमतिभिराशङ्कयते, [G.357] तदेव निवर्त्यत इत्यतोऽसिद्धमेतत् प्रमेयादिशब्दानां निवर्त्य नास्तीति। अन्यथेति। यदि जडधीभिराशङ्कितं न निवर्तयेदित्यर्थः।। स्यादेतत्- नैव श्रोत्रा किञ्चिदाशङ्कितमित्याह
किञ्चिद्ध्याशङ्कमानोऽसौ किमर्थं परिपृच्छति।
अतत्संस्कारकं शब्दं ब्रुवन् वा स्वस्थधीः कथम्॥११६९॥ यदि हि श्रोता न क्वचिदर्थे संशेते तत्किमिति परस्मादुपदेशमपेक्षते, निश्चयार्थं हि परं १. शब्दादौ- पा०, गा०। .. २. नहि-पा०, गा० ।
३. किञ्चिच्छङ्कित०- पा०, गा० ।