________________
३०४
तत्त्वसंग्रहे तुशब्दस्य विशेषणम्, एवकारस्यावधारणमित्यादेर्ग्रहणम्। तदन्यस्येति । तस्मात् समुच्चयादेरन्यस्य। तेनेति' चादिना ॥ ११५८॥ "वाक्यार्थेऽन्यनिवृत्तिश्च व्यपदेष्टुं न शक्यते" (तत्त्व० ९७७) इत्यत्राह
वाक्यार्थेऽन्यनिवृत्तिश्च सुज्ञातैव तथा ह्यसौ। पदार्था एव सहिताः केचिद् वाक्यार्थ उच्यते॥११५९॥ तेषां च ये विजातीयास्तेऽपोह्याः सुपरिस्फुटाः।
वाक्यार्थस्यापि ते चैव तेभ्योऽन्यो नैव सोऽस्ति हि॥१९६०॥ सहिता इति। परस्परं कार्यकारणभावेन सम्बद्धा इत्यर्थः । तेषमिति पदार्थानाम् । ननु पदार्थोऽप्यन्यः, अन्यस्तु वाक्यार्थः२, तत् कथमुच्यते-य एव पदार्थाचामपोह्या [G.355] वाक्यार्थस्यापि त एव? इत्यत आह- तेभ्योऽन्यो नैव सोऽस्तीति । न हि पदार्थव्यतिरिक्तो निरवयवः शबलात्मा वा कल्माषवर्णप्रख्यो वाक्यार्थोऽस्ति; उपलब्धिलक्षणप्राप्तस्य तादृशस्यानुपलब्धेरिति भावः ॥ ११५९-११६०॥ एतदेवोदाहरणेन स्फुटयन्नाह
चैत्र गामानयेत्यादिवाक्यार्थेऽधिगते सति। .
कर्तृकर्मान्तरादीनामपोहो गम्यतेऽर्थतः॥११६१॥ न ह्यस्मिन् वाक्ये चैत्रादिपदार्थव्यतिरेकेण बुद्धावन्योऽर्थः प्रतिवर्त्तते । चैत्रे ह्यर्थगते च सामर्थ्यादचैत्रादिव्यवच्छेदो गम्यते; अन्यथा यद्यन्यकादिव्यवच्छेदो नाभीष्टः स्यात्, तदा चैत्रादीनामुपादानमनर्थकमेव स्यात्। ततश्च न किञ्चित् कश्चिद् व्याहरेदिति निरीहमेव जगत् स्यात् ॥ ११६१॥ ___ "अनन्यापोहशब्दादौ वाच्यं न च निरूप्यते" (तत्त्व० ९७८) इत्यत्राह
अनन्यापोहशब्दादौ न विधिय॑वसीयते।
परैरभिमतः पूर्वं जात्यादेः प्रतिषेधनात्॥११६२॥ न ह्यत्र भवदभिमतो जात्यादिलक्षणो विधिरूपः शब्दार्थः परमार्थतोऽवसीयते, तस्य जात्यादेः पूर्व सामान्यपरीक्षादौ विस्तरेण निषिद्धत्वात् ।। ११६२ ॥ किं तवसीयते? इत्याह
किन्तु विध्यवसाय्यस्माद् विकल्पो जायते ध्वनेः।
पश्चादपोहशब्दार्थनिषेधे जायते मतिः॥११६३॥ यद्यपोहशब्दार्थनिषेधे मतिर्जायत इतीष्यते, न तपोहशब्दार्थोऽभ्युपगन्तव्यः, तस्य निषिद्धत्वादित्यत आह
स त्वसंवादकस्तादृग्वस्तुसम्बन्धहानितः।
न शब्दाः प्रत्ययाः सर्वे भूतार्थाध्यवसायिनः ॥११६४॥ सइति अनन्यापोहशब्दादिः। असंवादक इति न संवदतीत्यसंवादकः, न विद्यते वा संवादोऽस्येत्यसंवादकः । कस्मात् ? वस्तुसम्बन्धहानित: तथा तवस्तुसम्बन्धाभावात् । पूर्व १. तेन- पा०, गा०।
. २-२. पदार्थोऽन्यः अन्यस्त्ववाक्यार्थ:- जे०।