________________
शब्दार्थपरीक्षा
३०३ यदुक्तम्- "विध्यादावर्थराशौ च नान्यापोहनिरूपणम्" (तत्त्व० ९७६) इति, तत्राह
विध्यादावर्थराशौ च नास्तितादि निषिध्यते।
सामर्थ्यान्न तु शब्देन यदेव न विवक्षितम्॥११५२॥ विध्यादेरर्थस्य निषेधादिव्यावृत्ततयाऽवस्थितत्वात् तत्प्रतिपत्तौ सामर्थ्यादविवक्षितं नास्तितादि निषिध्यत इत्यस्त्येवात्राप्यन्यापोहनिरूपणम्॥ ११५२॥ "नत्रश्चापि नसा युक्तौ" (तत्त्व० ९७६) इत्यत्राह
नत्रश्चापि नञा युक्तावपोहस्तादृशो भवेत्।
तच्चतुष्टयसद्भावे यादृशः सम्प्रतीयते॥११५३॥ तच्चतुष्टयसद्भाव इति। नञ्चतुष्टयसद्भावे॥ ११५३॥ कीदृशोऽसौ सम्प्रतीयते? इत्याह
नत्रा योगे नञो ह्यर्थो गम्यते कस्यचिद् विधिः ।
तृतीयेन नत्रा तस्य विरहः प्रतिपाद्यते॥११५४॥ अर्थशब्दो विधिशब्देन सम्बन्धनीयः । तस्य विरहइति। [G.354] तस्य विधेर्निषेधः ॥
निषेधायापरस्तस्य तुरीयो यः प्रयुज्यते।
तस्मिन् विवक्षिते तेन ज्ञाप्यतेऽन्यनिवर्त्तनम्॥११५५॥ तृतीयनप्रतिपादितस्य विधिरहितस्य निषेधायेत्यर्थः । तुरीयइति चतुर्थः । “२चतुरश्छयतावाद्यक्षरलोपश्च" (पा० सू० ५.२.५१) इत्यनेन पूरणार्थे यत्प्रत्ययविधानात्। तस्मिन्वि वक्षितइति। तस्मिश्चतुर्थे नञि प्रयुक्ते इत्यर्थः । तेनेति चतुर्थेन नजा। ज्ञाप्यतेऽन्यनिवर्तनमिति । तृतीयनप्रतिपादितनिषेधविवेकेन विधिरूपस्यार्थप्रतिबिम्बकस्य प्रतिपादनात् ॥११५३-११५५॥ . एतदेवोदाहरणेन स्फुटीकुर्वनाह
नासौ न पचतीत्युक्ते गम्यते पचतीति हि।
औदासीन्यादियोगश्च तृतीयेन हि गम्यते॥११५६॥ तुर्ये तु तद्विविक्तोऽसौ पचतीत्यवसीयते।
तेनात्र विधिवाक्येन सममन्यनिवर्त्तनम्॥११५७॥ तद्विविक्तोऽसविति। औदासीन्यादिविविक्तः। विधिवाक्येन सममन्यनिवर्त्तनमिति। यथा पचतीत्यादौ विधिवाक्ये सामर्थ्यादौदासीन्यविनिवृत्तिर्गम्यते', तथा द्वितीयेऽपि नजीति । सिद्धमत्राप्यन्यनिवर्तनम् । स्पष्टार्थं तु नञ्चतुष्टयोदाहरणम् ॥ ११५६-११५७ ॥ "चादीनामपि नज्योगो नैवास्ति (तत्त्व० ९७७) इति, अत्राह
समुच्चयादिर्यश्चार्थः कश्चिच्चादेरभीप्सितः। . तदन्यस्य विकल्पादेर्भवेत् तेन व्यपोहनम्॥११५८॥
आदिशब्देन वाशब्दस्य विकल्पोऽर्थः, अपिशब्दस्य पदार्थसम्भावनान्ववसर्गादयः, १. प्रतीयते--- पा०, गा०।
२. चतुरस्थयता०- पा०, गा०। ३. त्तिरिष्यते- पा०, गा० ।
४. ०प्यस्य निवर्तरप- पा०, गा०।