________________
३०६
तत्त्वसंग्रहे पृच्छति, अन्यथोन्मत्तः स्यात् । स्यादेतत्- यदि नाम श्रोतुराशङ्कास्थानमस्ति, तथापि तच्छब्देन न निवर्त्यत एव? इत्याह-अतत्संस्कारकमित्यादि। तस्य श्रोतुरज्ञानादिनिवृत्तिलक्षणसंस्कार:तत्संस्कारः, न विद्यते तत्संस्कारो यस्मिन् शब्द इति तदतसंस्कारकम्। शेषाद्विभाषा' (पा० सू० ५.४.१५४) इति कप्। ब्रुवन्निति प्रतिपादकः । स्वस्थधीः कथमिति। उन्मत्तक एव स्यादित्यर्थः । श्रोतृसंस्कारायैव शब्दानां प्रयोगात् ॥ ११६८-११६९ ॥ अत्र कस्मिन् वाक्ये किं तन्मूढमतेराशङ्कास्थानं यनिवर्त्यते? इत्याह
चक्षुर्ज्ञानादिविज्ञेयं रूपादीति यदुच्यते।
तेनारोपितमेतद्धि केनचित् प्रतिषिध्यते॥११७०॥ तेनेति । 'चक्षुर्ज्ञानादिविज्ञेयं रूपादि' इत्यनेन वाक्येन ॥ ११७० ॥ किं तदारोपितम्? इत्याह
न चक्षराश्रितेनैव रूपं नीलादि वेद्यते।
किन्तु श्रोत्राश्रितेनापि नित्येनैकेन चेतसा॥११७१॥ श्रोत्राश्रितेनापि नित्येन चेतसा नीलादिरूपं वेद्यत इत्येवं यन्मूढधिया' साङ्ख्यादिना' समारोपितं तत् 'चक्षुर्विज्ञानविज्ञेयं रूपम्' इत्यनेन वाक्येन निषिध्यते। चक्षुराश्रितविज्ञानविज्ञेयमेव रूपम्, न श्रोत्रादिविज्ञानविज्ञेयमित्यर्थः ॥ ११७१॥ . .
क्षणिकत्वादिरूपेण 'विज्ञेया इति विभ्रमे। .. सर्वज्ञज्ञानविज्ञेया धर्माश्चैते भवन्ति किम्॥११७२॥ अभावा अपि विज्ञेया न ज्ञानं जनयन्ति ये।
इत्यादिविभ्रमोद्भूतौ विज्ञेयपदमुच्यते॥११७३ ॥ एवं सर्वधर्माः किं क्षणिकात्मादिरूपेण विज्ञेया:? आहोस्विन्न ? किं वा सर्वज्ञचेतसा [G.358] ग्राह्याः? उताहो न?, अभावा अपि' सर्वोपाख्याविरहलक्षणया ये ज्ञानमपि न जनयन्ति ते किं विज्ञेया:? - इति संशयोद्भूतौ सत्यामिदमुच्यते-क्षणिकत्वादिरूपेण ज्ञेयाः सर्वधर्माः, ते च सर्वज्ञज्ञानविज्ञेयाः, अभावा विज्ञेया इति । अत्र यदक्षणिकत्वादिना ज्ञेयत्वादिरूपमारोपितं धर्मेषु, तन्निवर्त्यते ॥ ११७२-११७३॥ कथं तद्वचनमात्रेण निवर्तयितुं शक्यते? इत्येतदाह
तादृग्ज्ञेयत्वमस्त्येषां क्षणिकत्वादिसाधनात्।
ज्ञेयोऽभावोऽपि संवृत्त्या स्थापनादमुनाऽऽत्मना ॥११७४॥ तादृगिति क्षणिकत्वादिरूपेण तस्य प्रमाणसिद्धत्वात्। अथाभावस्य कथं ज्ञेयत्वं सिद्धम्? इत्याह- ज्ञेय इत्यादि। अमुनाऽऽत्मनेति अभावरूपेण । अवस्तूनामपि कथञ्चिद् बुद्ध्या व्यवस्थापनादस्ति ज्ञेयत्वम्, अन्यथा तत्र व्यवहार एव न स्यादिति भावः ॥ ११७४॥
- ननु च "किमनित्यत्वेन शब्दाः प्रमेयाः? आहोस्विन्न?" इति प्रस्तावे 'प्रमेयाः' इति प्रयोगे तत्र यः प्रकरणानभिज्ञस्तस्यापि प्रतिपत्तुः 'प्रमेयाः' इति केवलशब्दश्रवणात् १-६. यन्भन्दधिया......पा०, गा। २. किं ज्ञेया-पा०, गा०। ३. क्षणिकत्वादिरूपेण- पा०. गा० ।
• ५. हि-पा०, गा०।