Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 335
________________ शब्दार्थपरीक्षा ३०९ न भावो नापि चाभावोऽपृथगेकत्वलक्षणः। नाश्रितानाश्रितोऽपोहो नैकानेकश्च वस्तुतः॥११८८॥ कस्माद्भावो न भवति? इत्याह [G.361] तथाऽसौ नास्ति तत्त्वेन यथाऽसौ व्यवसीयते। तन्न भावो न चाभावो वस्तुत्वेनावसायतः॥११८९॥ बाह्यरूपतयाऽसौ भ्रान्तैरवसीयते, न चासौ तथाऽवस्थित इत्यतो बाह्यरूपत्वाभावान्न भावः । अथाभावः कस्मान्न भवति? इत्याह-न चाभावो वस्तुत्वेनावसायतइति। 'बाह्यरूपतयावसितत्वान्नैकान्तेनाभाव इत्यपि शक्यं वक्तुम्॥ ११८९॥ अथ पृथक्त्वैकत्वादिलक्षणः कस्मान्न भवति? इत्याह भेदाभेदादयः सर्वे वस्तुसत्परिनिष्ठिताः। निःस्वभावश्च शब्दार्थस्तस्मादेते निरास्पदाः॥११९०॥ भेदाभेदादयः व्यतिरेकाव्यतिरेकादयः। आदिशब्देनाश्रितत्वादयो गृह्यन्ते। न हि वस्तुगता एव धर्माः, तत्कथमपोहे कल्पनाशिल्पिघटितविग्रहे प्रतिष्ठां लभेरन्! यज्चोक्तम्"क्रियारूपत्वादपोहस्य विषयो वक्तव्यः" (तत्त्व० ९८८) इति, तदसिद्धम्; शब्दवाच्यस्यापोहस्य प्रतिबिम्बात्मकत्वात्। तच्च प्रतिबिम्बकमध्यवसितबाह्यवस्तुरूपत्वान्न प्रतिषेधमात्रम्। अत एव–'किंगोविषयः, अथागोविषयः' इत्यस्य विकल्पद्वयस्यानुपपत्तिः; गोविषयत्वेनैव तस्य विधिरूपतयाऽध्यवसीयमानत्वात्।। ११९०॥ यच्चाक्तम्- "केन ह्यगोत्वमासक्तं गोर्येनैतदपोह्यते" (तत्त्व० ९८८) इति? तत्राह• अन्यार्थविनिवृत्तिं च साक्षाच्छशब्दः करोति नः। कृते स्वार्थाभिधाने तु सामर्थ्यात् साऽवगम्यते॥११९१॥ न तदात्मा परात्मेति विस्तरेणोपपादितम्। .परपक्षानभिज्ञेन तस्मादेतदिहोच्यते॥११९२॥ केन गोत्वमासक्तं गोर्येनैतदपोयते। इति नैवाभिमुख्येन शब्देनैतदपोयते॥११९३॥ यदि हि प्रधानेनान्यनिवृत्तिमेव शब्दः प्रतिपादयेत् तदैतत् स्यात्, यावताऽर्थप्रतिबिम्बकमेव यथोक्तं प्रथमतरः शब्दः करोति, तद्गतौ च सामर्थ्यादन्यनिवर्त्तनं गम्यत इति सिद्धान्तानभिज्ञतया यत्किञ्चिदभिहितमेतदिति संक्षेपार्थः । शेषं सुबोधम् ॥ ११९१-११९३ ॥ व्यतिरेकादिविकल्पः पूर्वमेव निरस्तः । यदुक्तम्- "किमयमपोहो वाच्यः" [G.362] (तत्त्व० ९९६) इत्यादि, तत्राह- .. ... कतमेन च शब्देन वाच्यत्वं परिपृच्छ्यते। अपोहस्य किमेतेन यदि वा किं घटादिना॥११९४॥ __शब्दार्थः किमपोहो वा विधिर्वेति निरूपणे। अपोह इति भात्येतद् यत् तदेवं प्रतीयते॥११९५॥ १. बाह्यरूपतया दर्शितत्वा०- पा०, गा०। २. सामर्थ्यादेव निवर्तनम्- पा०, गा० ।

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444