Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 317
________________ शब्दार्थपरीक्षा २९१ स्यादेतद्- यद्यपि तत्र वस्तुभूतं नास्ति वाच्यम्, वाचकं तु महाश्वेतादिशब्दस्वलक्षणमस्त्येव? इत्यत आह न वाचकं च शब्दस्यं क्षणभङ्गि स्वलक्षणम्॥१०९२॥ सर्वपदार्थव्यापिनः क्षणभङ्गस्य प्रतिपादितत्वान्न शब्दस्वलक्षणस्य वाचकत्वम्; क्षणभङ्गित्वेन तस्य सङ्केतासम्भवात्, व्यवहारकालानन्वयाच्चेति प्रतिपादितम्॥१०९२ ।। तस्मादित्यादिनोपसंहरति तस्मात् तदद्वयमेष्टव्यं प्रतिबिम्बादि सांवृतम्। द्वयमिति वाच्यं वाचकं च। प्रतिबिम्बादीत्यादिशब्देन निराकारज्ञानाभ्युपगमेऽपि [G.339] स्वगतमन्यत् किञ्चित् प्रतिनियतमनर्थेऽर्थाध्यवसायिरूपस्य विज्ञानस्यावश्यमङ्गीकर्तव्यमिति दर्शयति तेषु तद्व्यभिचारित्वं दुर्निवारमवस्थितम्॥१०९३॥ कल्पपनोपरचितेष्वर्थेषु । तदिति तस्मात्। तस्य वा हेतोर्व्यभिचारित्वं तद्व्यभिचारित्वम् ॥ १०९३ ॥ "विधिरूपश्च शब्दार्थो येन नाभ्युप्नगमते" (तत्त्व० ९६५) इत्याह विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते। तदाभं जायते चेतः शब्दादर्थावसायि हि॥१०९४॥ स्वार्थाभिधाने शब्दानामर्थादन्यनिवर्त्तनम्। तधुक्तौ व्यतिरेकोऽपि मम तत्पूर्वको ह्यसौ॥१०९५॥ न ह्यस्माभिः सर्वथा विधिरूपः शब्दार्थो नाभ्युपगम्यते, येनैतद् भवताऽनिष्टप्रसङ्गापादानं क्रियते; यावता शब्दार्थाध्यवसायिनश्चेतसः समुत्पादात् सांवृतो विधिरूपः शब्दार्थोऽभीष्यत एव । तत्त्वतस्तुं न किञ्चिद्वाच्यमस्ति शब्दानामिति विधिरूपस्तात्त्विको निषि तेन सांवृतस्य विधिरूपस्य शब्दार्थस्येष्टत्वात् स्वार्थाभिधाने विधिरूपे सत्य व्यति। - . सामर्थ्यादधिगतेर्विधिपूर्वको युज्यत एव ॥ १०९४-१०९५ ॥ __ स्यादेतद्-यदि विधिरूपः शब्दार्थोऽभ्युपगम्यते, कथं तर्हि तुमुने लक्षणकार - "असम्भवो विधेः" इत्युक्तम् ? इत्यत आह असम्भवो विधेरुक्तः सामान्यादेरसम्भवात्। शब्दानां च विकल्पानां वस्तुनो विषयत्वतः॥१०९६ ॥ सामान्यलक्षणादेर्वाच्यस्य वाचकस्य च परमार्थतोऽसम्भवाच्छब्दानां विकल्पानां च वस्तुतः परमार्थतो विषयासम्भवात् परमार्थमाश्रित्य विधेरसम्भव उक्त आचार्येणेत्यविरोधः ॥१०९६॥ "अपोहमात्रवाच्यत्वम्" (तत्त्व० ९६६) इत्यादावाह नीलोत्पलादिशब्देभ्य एक एवावसीयते। १-१. वाचकत्वं- पा०, गा०।। २. पा०, गा०, पुस्तकयो स्ति। ३. तद्योगो- पा०, गा०। . ४. एतन्नामके ग्रन्थे इत्यर्थः।

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444