________________
शब्दार्थपरीक्षा
२९१ स्यादेतद्- यद्यपि तत्र वस्तुभूतं नास्ति वाच्यम्, वाचकं तु महाश्वेतादिशब्दस्वलक्षणमस्त्येव? इत्यत आह
न वाचकं च शब्दस्यं क्षणभङ्गि स्वलक्षणम्॥१०९२॥ सर्वपदार्थव्यापिनः क्षणभङ्गस्य प्रतिपादितत्वान्न शब्दस्वलक्षणस्य वाचकत्वम्; क्षणभङ्गित्वेन तस्य सङ्केतासम्भवात्, व्यवहारकालानन्वयाच्चेति प्रतिपादितम्॥१०९२ ।। तस्मादित्यादिनोपसंहरति
तस्मात् तदद्वयमेष्टव्यं प्रतिबिम्बादि सांवृतम्। द्वयमिति वाच्यं वाचकं च। प्रतिबिम्बादीत्यादिशब्देन निराकारज्ञानाभ्युपगमेऽपि [G.339] स्वगतमन्यत् किञ्चित् प्रतिनियतमनर्थेऽर्थाध्यवसायिरूपस्य विज्ञानस्यावश्यमङ्गीकर्तव्यमिति दर्शयति
तेषु तद्व्यभिचारित्वं दुर्निवारमवस्थितम्॥१०९३॥ कल्पपनोपरचितेष्वर्थेषु । तदिति तस्मात्। तस्य वा हेतोर्व्यभिचारित्वं तद्व्यभिचारित्वम् ॥ १०९३ ॥ "विधिरूपश्च शब्दार्थो येन नाभ्युप्नगमते" (तत्त्व० ९६५) इत्याह
विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते। तदाभं जायते चेतः शब्दादर्थावसायि हि॥१०९४॥ स्वार्थाभिधाने शब्दानामर्थादन्यनिवर्त्तनम्।
तधुक्तौ व्यतिरेकोऽपि मम तत्पूर्वको ह्यसौ॥१०९५॥ न ह्यस्माभिः सर्वथा विधिरूपः शब्दार्थो नाभ्युपगम्यते, येनैतद् भवताऽनिष्टप्रसङ्गापादानं क्रियते; यावता शब्दार्थाध्यवसायिनश्चेतसः समुत्पादात् सांवृतो विधिरूपः शब्दार्थोऽभीष्यत एव । तत्त्वतस्तुं न किञ्चिद्वाच्यमस्ति शब्दानामिति विधिरूपस्तात्त्विको निषि तेन सांवृतस्य विधिरूपस्य शब्दार्थस्येष्टत्वात् स्वार्थाभिधाने विधिरूपे सत्य व्यति। - . सामर्थ्यादधिगतेर्विधिपूर्वको युज्यत एव ॥ १०९४-१०९५ ॥
__ स्यादेतद्-यदि विधिरूपः शब्दार्थोऽभ्युपगम्यते, कथं तर्हि तुमुने लक्षणकार - "असम्भवो विधेः" इत्युक्तम् ? इत्यत आह
असम्भवो विधेरुक्तः सामान्यादेरसम्भवात्।
शब्दानां च विकल्पानां वस्तुनो विषयत्वतः॥१०९६ ॥ सामान्यलक्षणादेर्वाच्यस्य वाचकस्य च परमार्थतोऽसम्भवाच्छब्दानां विकल्पानां च वस्तुतः परमार्थतो विषयासम्भवात् परमार्थमाश्रित्य विधेरसम्भव उक्त आचार्येणेत्यविरोधः ॥१०९६॥ "अपोहमात्रवाच्यत्वम्" (तत्त्व० ९६६) इत्यादावाह
नीलोत्पलादिशब्देभ्य एक एवावसीयते। १-१. वाचकत्वं- पा०, गा०।।
२. पा०, गा०, पुस्तकयो स्ति। ३. तद्योगो- पा०, गा०।
. ४. एतन्नामके ग्रन्थे इत्यर्थः।