SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २९२ तत्त्वसंग्रहे .. अनीलानुत्पलादिभ्यो व्यावृत्तं प्रतिबिम्बकम्॥१०९७॥ एकमेवानीलानुत्पलव्यावृत्तमाकारमुभयरूपं प्रतिबिम्बकं नीलोत्पलशब्दो वदति, नाभावमात्रम्; अतः शबलार्थाभिधायित्वमध्यवसायवशान्नीलोत्पलादिशब्दानामस्त्येवेति तदनुरोधात् सामानाधिकरण्यमुपपद्यत एव ॥ १०९७ ॥ [G.340] यदुक्तम्- “अथान्यापोहवद्वस्तु वाच्यमित्यभिधीयते" (तत्त्व० ९७१) इति, अत्राह न त्वन्यापोहवद् वस्तु वाच्यमस्माभिरिष्यते। व्यावृत्तादन्यतोऽभावान्नान्याद् व्यावृत्तिरस्ति नः॥१०९८॥ यदि हि व्यावृत्ताद्भावाव्यावृत्ति मान्या भवेत्, तदा स्यात् तद्वत् पक्षोदितदोषप्रसङ्गः, यावताऽन्यतो व्यावृत्ताद् भावानास्माकमन्या व्यावृत्तिरस्ति, अपितु व्यावृत्त एव भावो भेदान्तरप्रतिक्षेपमात्रजिज्ञासायां तथाभिधीयते। तेन यथाजातौ प्राधान्येन वाच्यायां पारतन्त्र्येण तद्वतोऽभिधानात्तद्गतभेदानाक्षेपात् तेन सह सामानाधिकरण्यादेरभावप्रसङ्ग उक्तः, तद्वदपोहपक्षे नावतरति; व्यतिरिक्तान्यापोहवतोऽनभिधानात्। तद्दर्शयति- .. तत् पारतन्त्र्यदोषोऽयं जाताविव न संङ्गतः। अवदातमिति प्रोक्ते शब्दस्यार्थेऽपृथक्त्वतः॥१०९९ ॥ विशेषणविशेष्यत्वसामानाधिकरण्ययोः । ... तस्मादपोहे शब्दार्थे व्यवस्था न विरुध्यते॥११००॥ तदिति तस्मात् । अवदातमिति प्रोक्त इति । विशुद्धधियाऽऽचार्यदिङ्नागेनप्रोक्तेऽपोहलक्षणे शब्दार्थे । अत्र कारणमाह-अपृथक्त्वत इति। तस्यान्यापोहलक्षणस्य शब्दार्थताऽन्यापोढात् पदार्थादपृथक्त्वाद्, अव्यतिरेकादिति यावत्। विशेषणविशेष्येत्यादि। सुबोधम् ॥ १०९८-११००॥ यथा च न विरुध्यते सामानाधिकरण्यादि, तथा दर्शयन्नाह केवलानीलशब्दादेविशिष्टं प्रतिबिम्बकम्। कोकिलोत्पलभृङ्गादौ प्लवमानं प्रवर्त्तते॥११०१॥ पिकाञ्जनाद्यपोहेन विशिष्टविषयं पुनः। तदिन्दीवरशब्देन स्थाप्यते परिनिश्चितम्॥११०२॥ सामानाधिकरण्यादिरेवमस्मिन्न बाधितः। तथाहि-नीलमित्युक्ते पीतादिव्यावृत्तान्यपदार्थव्यवसायिभ्रमरकोकिलाञ्जनादिषु संशय्यमानरूपं विकल्पप्रतिबिम्बकमुदेति। तच्चोत्पलशब्देन कोकिलादिभ्यो [G.341] व्यवच्छेद्यानुत्पलव्यावृत्तवस्तुविषये व्यवस्थाप्यमानं परिनिश्चितात्मकं प्रतीयते। तेन परस्पर यथोक्तबुद्धिप्रतिबिम्बकापेक्षया व्यवच्छेद्यव्यवच्छेदकभावान्नीलोत्पलशब्दयोर्विशेष्यविशेषणभावो न विरुध्यते। द्वाभ्यां वाऽनीलानुत्पलव्यावृत्तैकप्रतिबिम्बात्मकवस्तुप्रतिपादनादेकार्थवृत्तितया सामनाधिकरण्यं च भवतीति समुदायार्थः। . . . १. तै:- इति जै० पुस्तके पाठान्तरम् । २.प्रोक्तापोहलक्षणे- जै०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy