________________
शब्दार्थपरीक्षा
२९३ अवयवार्थस्तूच्यते- प्लवमानमिति। अलभमानप्रतिष्ठम्, संशयरूपमिति यावत्। पिकशब्दः कोकिलपर्यायः । शेष-सुबोधम्। स्यादेतद्-अस्मत्पक्षेऽपि सामानाधिकरण्यादिरविरुद्ध एव? इत्येतदाह
परपक्षे तु सर्वेषां तद्वयवस्थाऽतिदुर्घटा॥११०३॥ तव्यवस्थेत। तस्य सामानाधिकरण्यादेर्व्यस्था तव्यवस्था॥ ११०१-११०३ ॥ कथं दुर्घटा? इत्याह. तथा होके न शब्देन सर्वथोक्तं स्वलक्षणम्।
तथा चाभिहिते तस्मिन् कस्माद् भेदान्तरेऽमतिः॥११०४॥ विधिशब्दार्थवादिपक्षे नीलादिशब्देनैवैकेनोत्पलादिस्वलक्षणेऽभिहिते किमुत्पलम्, आहोस्विदञ्जनम्?— इत्येवमज्ञानं विशेषान्तरे न प्राप्नोति; सर्वात्मना तस्य वस्तुनः प्रतिपादितत्वात् । एकस्यैकदैकप्रतिपत्रपेक्षया ज्ञाताज्ञातत्वविरोधात्। तद् दर्शयति-कस्माद् भेदान्तरेऽमतिरिति। अमति:=अज्ञानम्। कुत्सिता वा मतिरमतिः । संशयः, विपर्यासश्चेति यावत् ॥११०४॥
ततश्च संशयविपर्यासाभावादुत्पलादिशब्दान्तरप्रयोगाकाङ्क्षा प्रयोक्तुश्च न प्राप्नोतीति दर्शयति
यदर्थमपरः शब्दः प्रयुज्येतात्र वस्तुनि'। ___यदर्थमिति, यस्या अमतेर्निवृत्त्यर्थमित्यर्थः । अथापि स्यात्- तद्वस्त्वेकदेशेनाभिहितं न सर्वात्मना, तेन स्वभावान्तराभिधानायापरः शब्दोऽन्वेष्यत एव? इत्यत आह
. सर्वथाऽभिहिते नों चेत् तदने प्रसज्यते॥११०५॥
न कस्य वस्तुन एकदेशाः सन्ति, येनैकदेशेनाभिधानं स्यात्, एकत्वानेकत्वयोः परस्परपरिहारस्थितलक्षणत्वात्। ततश्च यावन्तस्ते एकदेशास्तावन्त्येव केवलं भवता वस्तूनि प्रतिपादितानीति नैकमने सिध्येत् ।। ११०५ ॥
__ स्यादेतत्-न नीलशब्देन द्रव्यमभिधीयते, किं तर्हि ? नीलाख्यो गुणः तत्समवेता वा नीलत्वजातिः, उत्पलशब्देनाप्युत्पलजातिरेवोच्यते, न द्रव्यम्, तेन भिन्नार्थाभिधानादुत्पलशब्दान्तराकाङ्क्षा युज्यत एव? इत्यत आह
नीलजातिर्गुणो वाऽपि नीलशब्देन चेद् गतः। अन्येन्दीवरजातिस्तु व्यवसेयोत्पलश्रुतेः॥११०६ ॥ एवं सति तयोर्भेदाद बकुलोत्पलशब्दवत्।
सामानाधिकरण्यादिः सुतरां नोपपद्यते॥११०७॥ [G.342] अन्येन्दीवरजातिस्त्विति। अन्या चासाविन्दीवरजातिश्चेति समासः। व्यवसेयेति व्यवसातव्या। उत्पलश्रुतेरिति पञ्चम्यन्तम्। अस्मिन् पक्षे सुतरामेव सामानाधिकरण्यमनुपपन्नम्। बकुलोत्पलशब्दयोरिवैकस्मिन्नर्थे नीलोत्पलशब्दयोवृत्त्यभावात्। न हि भवति- बकुलमुत्पलमिति ॥ ११०६-११०७॥
स्यादेतत्-नीलशब्दो यद्यपि जातिगुणविशेषवचनः, तथापि तद्द्वारेण नीलगुण१. या-पा०, गा०।
२. वस्तुत:- पा०, गा०। ३-३. यावन्तश्चैक०- पा०, गा०।