________________
२९४
तत्त्वसंग्रहे तज्जातिभ्यां सम्बद्धं द्रव्यमपि तेनाभिधीयते; तथोत्पलशब्देनापि जातिद्वारेण तदेव द्रव्यमभिधीयते-इत्यतस्तयोरेकार्थवृत्तिसम्भवात् सामानाधिकरण्यं भविष्यति, न बकुलोत्पलशब्दयोः? इत्यत आह
गुणतजातिसम्बद्धं द्रव्यं चेत् प्रतिपाद्यते।
नीलशब्देन यद्येवं व्यर्था स्यादुत्पलश्रुतिः॥११०८॥ गुणश्च नीलाख्यः तज्जातिश्च नीलत्वाख्येति गुणतजाती, ताभ्यां सम्बद्धमिति विग्रहः। व्यर्था स्यादुत्पलश्रुतिरिति । नीलशब्देनैव तस्य द्रव्यस्य प्रतिपादितत्वात् ॥ ११०८॥ एतदेव दर्शयति
ताभ्यां यदेव सम्बद्धं तदेवोत्पलजातिमत।...
नीलश्रुत्यैव तत् प्रोक्तं व्यर्था नीलोत्पलश्रुतिः ॥११०९॥ ताभ्यामिति गुणतज्जातिभ्याम्।।
स्यादेतत्-यद्यपि नीलशब्देन गुणतज्जातिमद् द्रव्यमभिधीयते, तथापि तस्य नीलशब्दस्यानेकार्थवृत्तिदर्शनात् प्रतिपत्तुरुत्पलार्थे निश्चितरूपा न बुद्धिरूपजायते, कोकिलादेरपि नीलावात्। अतोऽर्थान्तरसंशयव्यवच्छेदायोत्पलश्रुतेः२ प्रयोगः सार्थक एवेति ? तदंसम्यक्; प्रकृतार्थानभिज्ञतयाऽभिधानात्। विधिशब्दार्थपक्षे हि सामानाधिकरण्यादि व्याप्रियते, न द्रव्यप्रतिपत्तये, न तर्हि विधिः शब्दार्थः स्यात्; उत्पलशब्देन भ्रान्तिसमारोपिताकारव्यवच्छेदमात्रस्यैव प्रतिपादनात् । परस्परविरुद्धं चेदमभिधीयते-नीलशब्देनोत्पादिकं द्रव्यमभिधीयते, अथ च प्रतिपत्तुस्तत्र निश्चयो न जायत इति ! [G.343] न हि यत्र संशयो जायते स शब्दार्थो युक्तः; अतिप्रसङ्गात्। नापि निश्चयेन विषयीकृते वस्तुनि संशयोऽवकाशं लभते; निश्चयारोपमनसोर्बाध्यबाधकभावात्।
स्यादेतत्- यद्यपि नीलोत्पलशब्दयोरेकस्मिन्नर्थे वृत्ति स्ति, तदर्थयोस्तु गुणजात्योरेकस्मिन् द्रव्ये वृत्तिरस्तीत्यतोऽर्थद्वारकमनयोः सामानाधिकरण्यं भविष्यतीति? तदेतदयुक्तम्; अतिप्रसङ्गात्। एवं हि रूपरसशब्दयोरपि सामानाधिकरण्यं स्यात्; तदर्थयो रूपरसयोरेकस्मिन् पृथिव्यादिद्रव्ये वृत्तेः।
किञ्च- 'नीलमुत्पलम्' इत्येकार्थविषया बुद्धिर्न प्राप्नोति; एकद्रव्यसमवेतयोर्गुणजात्योाभ्यां पृथक् पृथगभिधानात. न चैकार्थविषयज्ञानानुत्पादे शब्दयोः सामानाधिकरण्यमस्तीत्यलं बहुना ॥ ११०९॥
स्यादेतत्- न यदेव नीलगुणतजातिभ्यां सम्बद्धं वस्तु तदेवोत्पलशब्देनोच्यते, किं तर्हि ? अन्यदेव, तेनोत्पलश्रुतिर्व्यर्था न भविष्यति? इत्यत आह
गुणतजातिसम्बद्धादन्यदुत्पलजातिमत् ।।
यदि भिन्नाश्रये स्यातां पुनर्नीलोत्पलश्रुती॥१११०॥ यदीत्यवच्छेदः । भिन्नाश्रये स्यातामिति । व्यधिकरणे स्यातामित्यर्थः ॥ १११०॥
अथापि स्यात्- यद्यपि द्रव्यं नीलशब्देनोच्यते, उल्पलशब्देनापि तदेव; तथापि १ तोतं-पार गा०।
२. ०च्छेदादुत्पल०- पा०, गा० ।