SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ शब्दार्थपरीक्षा २९५ नीलशब्दो नोत्पलजातिसम्बन्धिरूपेण द्रव्यमभिधत्ते, किं तर्हि ? नीलगुणतजातिसम्बन्धिरूपेणैव, तेनोत्पलत्वजातिसम्बन्धिरूपत्वमस्याभिधातुमुत्पलश्रुति: प्रवर्त्तमाना नानर्थिका भविष्यतीति? तदेतदाशङ्कय परिहरति अथोत्पलत्वसम्बन्धिरूपत्वेन न चोदयेत्। गुणतजातिसम्बद्धं द्रव्यं नीलमिति ध्वनिः॥११११॥ अथ नीलमिति ध्वनिरुत्पलत्वसम्बन्धिरूपत्वेन गुणतजातिसम्बद्धं द्रव्यं न चोदयेदिति सम्बन्धः ॥ ११११॥ स्यान्नामोत्पलतायोगिरूपत्वमतदात्मकम् । उत्पलत्वेन सम्बद्धं त्वाभ्यां सम्बद्धमेव तत्॥१११२॥ [G.344] तदेतदसम्यक्।न हि नीलगुणतजातिसम्बन्धिरूपत्वादन्यदेवोत्पलजातिसम्बन्धिरूपत्वम्, येन 'नीलतज्जातिसम्बन्धिरूपत्वाभिधाने द्रव्यस्योत्पलत्वजातिसम्बन्धिरूपत्वाभिधानं न भवेत्, तावतैकस्माद्रव्यात् द्वयोरपि सम्बन्धिरूपत्वयोरव्यतिरेकात् तद्वत् तयोरप्येकत्वमेवइत्ययुक्तमेकरूपाभिधानेऽपररूपानभिधानम् ॥ १११२॥ नीलश्रुत्या च तत्प्रोक्तं शाब्द्यात्र विषयीकृतम्। बुद्ध्या सर्वात्मना नांशैस्तदनर्थोत्पलश्रुतिः॥१११३॥ किञ्चाभ्युपगम्योच्यते- भवतु नामोत्पलत्वसम्बन्धिरूपत्वं नीलतजातिसम्बन्धिरूपत्वादन्यत्, तथाप्युत्पलश्रुतिरनर्थिकैव। तथा हि- यत्तदनंशं वस्तूत्पलजात्या सम्बद्धं तदेवाभ्यां नीलगुणतज्जातिभ्यां सम्बध्यते, नान्यत्, तच्चानंशत्वात् सर्वात्मना नीलश्रुत्यैवाभिहितं शाब्धा च बुद्ध्या व्यवसायात्मिकया विषयीकृतमितिं किमपरमनभिहितमस्य स्वरूपमस्ति, यदभिधानायोत्पलश्रुतिः सार्थिका भवेत् !॥१११३॥ . __ उद्द्योतकरस्त्वाह- "निरंशे वस्तुनि सर्वात्मना विषयीकृतं नांशेनेत्येष विकल्पो नावतरति; सर्वशब्दस्यानेकार्थषियत्वात्, एकशब्दस्य चावयववृत्तित्वात्" ( इति, तदेतदाशङ्कय परिहरति- . नचेद् भेदविनिर्मुक्ते कात्य॑भेदविकल्पनम्। ...नं. वाक्यार्थापरिज्ञानादिदं ात्र विवक्षितम्॥१११४॥ प्रथमेनैव शब्देन सर्वथा तत् प्रकाशितम्। नात्मा कश्चित् परित्यक्तो यादृशं तत् तथोदितम्॥१११५॥ भेदविनिर्मुक्त इति । निरवयवे वस्तुनीत्यर्थः । कात्य॑भेदविकल्पनमिति । सर्वात्मना विषयीकृतम्, नैकदेशेनेत्येवं कात्य॑भेदाभ्यो विकल्पनम्। तदेतद्वाक्यार्थापरिज्ञानादुक्तम्। तथा हि- 'प्रथमेनैव नीलशब्देन सर्वात्मना तत्प्रकाशितम्' इत्यस्यायमर्थो विवक्षित:यादृशं तद्वस्तु तादृशमेवाभिहितम्, न तस्य कश्चित् स्वभावस्त्यक्तो यदभिधानायोत्पलश्रुति ०प्रियेत; निरंशत्वात्तस्य वस्तुन इति । अतो वाक्छलमेतत्॥१११४-१११५॥ १. नीलोत्पलादिसम्बन्धि०- पा०, गा० । २. वैकदेशे-पा०, गा०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy