________________
२९६
तत्त्वसंग्रहे एवं 'यथोत्पलश्रुतिरनर्थिका, तथान्येषामप्यनित्यादिशब्दानां प्रयोगोऽनर्थकः प्राप्नोति, सति प्रयोगे पर्यायत्वमेव स्यात् तरुपादपादिशब्दवदित्यतिदेशं कुर्वनाह
एतेनैव प्रकारेण नान्येषामप्युदीदरणम्।
सफलं तत्र शब्दानामुक्ताशै पर्यायता ध्रुवम्॥१११६॥ [G.345] उदीरणमिति प्रयोगः। उक्तविति उच्चारणे। तदुक्तम्
"अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि। बुद्ध्या वा नान्यविषय इति पर्यायता भवेत्"॥
(प्र० वा० ३.५०) इति ॥ १११६ ॥ स्यादेतत्-भवत्पक्षेऽप्येकेन शब्देनाभिहिने वस्तुनि भेदान्तरे संशयविपर्यासाभावप्रसङ्गः, शब्दान्तराप्रवृत्तिप्रसङ्गश्च कस्मान्न भवति? इत्यतआह
अस्माकं तु न शब्देन बाह्यार्थः प्रतिपाद्यते। . शब्दान्न चापि विज्ञानं बाह्यार्थविषयं मतम्॥१११७॥ यतः सर्वात्मना ताभ्यां विषयीकरणात् परम्।
शब्दज्ञानान्तरं तत्र पर्यायत्वं प्रयास्यति॥१११८॥ ताभ्यामिति शब्दज्ञानाभ्याम् । परमिति उत्तरकालम् ॥ १११७-१११८॥
अथ सांवृत्ते शब्दार्थे कस्मादेष सामानाधिकरण्याभावो दोषो न भवति? इत्यत आह
प्रतिबिम्बं तु शब्देन क्रमेणैवोपजन्यते। एकत्वेन च तद्भाति बाह्यत्वेन च विभ्रमात्॥१११९॥ सामानाधिकरण्यादि प्रतिबिम्बानुरोधतः।
परमार्थेन शब्दास्तु मता निर्विषया इमे॥११२०॥ नीलशब्देन हि प्रथमतरमनीलपदार्थव्यावृत्तमुत्पलादिषु प्लवमानरूपतया तेषामप्रतिक्षेपकमध्यवसितबाह्यरूपं विकल्पप्रतिबिम्बकमुपजन्यते, पुनरुत्पलश्रुत्या तदेवानुत्पलव्यावृत्तमारोपितबाबैकवस्तुस्वरूपमुपजन्यते, तदेवं क्रमेणानीलानुत्पलव्यावृत्तमध्यवसितबाबैकरूपं भ्रान्तं विकल्पप्रतिबिम्बकमुपजन्यत इति तदनुरोधात् सांवृतं सामानाधिकरण्यादि युज्यत एव। परमार्थतस्तु कस्मान्न युज्यते? इत्याह- परमार्थनेत्यादि । १११९-११२०॥
यदुक्तम्- “लिङ्गसङ्ख्यादिसम्बन्धो न चापोहस्य विद्यते" (तत्त्व० ९७२) इति, अत्राह
लिङ्गसङ्ख्यादियोगस्तु व्यक्तीनामपि नास्त्ययम्।
इच्छारचितसंकेतनिमित्तो न हि वास्तवः ॥ ११२१॥ वस्तुधर्मत्वमेषां लिङ्गसङ्ख्यादीनामसिद्धम्; स्वतन्त्रेच्छाविरचित्तसङ्केतमात्रभावित्वात्। [G.346] व्यक्तीनामपति अपिशब्दादपोहस्यापि । प्रयोगः-यो यदन्वयव्यतिरेकौ नानुविधत्ते, १. यथा चो-पा०, गा०।