________________
२९७
शब्दार्थपरीक्षा नासौ तद्धर्मः, यथा-शीतत्वमग्नेः । नानुविधत्ते च लिङ्गसङ्ख्यादि वस्तुनोऽन्व्यव्यतिरेकाविति व्यापकानुपलब्धिः ॥ ११२१॥ न चायमसिद्धो हेतुरिति दर्शयन्नाह
· तटी' तटं 'तटश्चेति त्रैरूप्यं न च वस्तुनः।
शबलाभासताप्राप्तेः सर्वेषां तत्र चेतसाम्॥११२२॥ यदि हि लिङ्गं वस्तुगतो धर्मः स्यात्, तदैकस्मिस्तटाख्ये वस्तुनि तटी, तटः तटमिति लिङ्गत्रययोगिशब्दप्रवृत्तेरेकस्य वस्तुनस्त्रैरूप्यप्रसङ्गः स्यात्। न चैकस्य स्त्रीपुनपुंसकाख्यं स्वभावत्रयं युक्तम्; एकत्वहानिप्रसङ्गात्। विरुद्धधर्माध्यासितस्याप्येकत्वे सर्वं विश्वमेकमेव वस्तु स्यात्, ततश्च सहोत्पत्तिविनाशप्रसङ्गः। किञ्च-सर्वस्यैव वस्तुन एकशब्देन शब्दान्तरेण वा लिङ्गत्रयप्रतिपत्तिदर्शनात् तद्विषयाणां सर्वचेतसां मेचकादिरत्नवच्छबलाभासताप्रसङ्गः ॥ ११२२॥
अथापि स्यात्-सत्यपि लिङ्गत्रययोगित्वे सर्ववस्तूनां यदेव रूपं वक्तुमिष्टं प्रतिपादकेन तन्मात्रावभासान्येव विवक्षावशाच्चेतांसि भविष्यन्तीति, न शबलाभासानि? इत्यत आह
विवक्षानुगतत्वे वा न स्युस्तद्विषयाणि ते। __ तद्वशादेकरूपाणि नैकरूपं च वस्तु तत्॥११२३॥ विवक्षानुगतत्वे वा चेतसामिति शेषः। यदि हि विवक्षावशादेकरूपाणि चेतांसि भवन्तीत्यङ्गीक्रियते, तदा तानि चेतांसि त्र्यात्मकवस्तुविषयाणि न प्राप्नुवन्ति, तदाकारशून्यत्वाद्, चक्षुर्विज्ञानवच्छब्दविषयम् । तद्वशदिति विवक्षावशात् ।। ११२३ ।।
योऽपि मन्यते- "संस्त्यानप्रसवस्थितिषु यथाक्रमं "स्त्रीपुनपुंसकत्वव्यवस्था" इति, तस्यापि तन युक्तमित्यादर्शयन्नाह
स्थितिप्रसवसंस्त्यानसंश्रया लिङ्गसंस्थितिः। . यदि स्यादविभागेन त्रिलिङ्गत्वं प्रसज्यते॥११२४॥
लिङ्गसंस्थितिर्यदि स्यादित्यत्र छेदः । यदि हि स्थित्याद्याश्रया लिङ्गस्थितिर्लिङ्गव्यवस्था स्यात्, तदा तटशृङ्खलादिवत् सर्वपदार्थेष्वविभागेन त्रीणि लिङ्गानि प्राप्नुवन्ति, सर्वत्र तटादिवत् स्थित्यादेर्विद्यमानत्वात्; अन्यथा तटः, तटी, तटमित्यादावपि लिङ्गत्रयं न स्यात्; विशेषाभावात्। तस्मादतिव्यापिता लक्षणदोषः ॥ ११२४॥ . [G.347] व्यभिचारदर्शनाच्चाव्यापितेति दर्शयन्नाह- . .. अभावो निरुपाख्यत्वं तुच्छतेति यदुच्यते।
तत्र स्थित्यादिसम्बन्धः कोऽसत्सु परिकल्प्यते॥११२५॥ असत्यपि हि स्थित्यादिके शशवविषाणादिष्वसद्रूपेष्वभावो निरुपाख्यत्वं तुच्छतेत्यादिभिः शब्दर्लिङ्गत्रयप्रतिपत्तिदर्शनादव्यापिनीयं लिङ्गव्यवस्था ॥ ११२५ ॥ १-१. तटस्तटी तटञ्चेति-पा०, गा०। २. नैरूप्यं-पा०, गा०। ३-३. सर्वस्यैवैक०-पा०, गा० । ४-४. यथोक्तस्त्री०-पा०, गा०। .. ५. 7-पा०, गा०। ६. विलिङ्गत्वं- पा०, गा०। ७. पा०, गा०, पुस्तकयोनास्ति।