________________
तत्त्वसंग्रहे
उत्पादः प्रसवश्चैषां नाशः संस्त्यानमिष्यते । आत्मरूपं तु भावानां स्थितिरित्यभिधीयते ॥ ११२६ ॥ तत्रोत्पादे न नाशोऽस्ति तत् किमुत्पत्तिरुच्यते । नात्माकारा स्थितिश्चास्ति तत् कथं जन्म गीयते ॥ ११२७ ॥ संस्त्याने न द्वयं चान्यत् तत् कथं व्यपदिश्यते । तिरोभावश्च नाशश्च तिरोभवनमित्यपि ॥ ११२८ ॥ स्थितौ स्थितिः स्वभावश्च हेतुना केन वोच्यते । अथाविभक्तमेवैषां रूपं स्यादेकलिङ्गता ॥ ११२९ ॥ इतश्चाव्यापिनी; तेष्वेव स्थित्यादिषु प्रत्येकं लिङ्गत्रययोगिशब्दप्रवृत्तिदर्शनात् । तथा हि- प्रसव उत्पाद उच्यते, संस्त्यानं विनाशः, आत्मस्वरूपं तु स्थितिः । तत्र प्रसवे स्थितिसंस्त्यानयोरभावात् कथमुत्पादे उत्पत्तिर्जन्मेत्यादेः स्त्रीनपुंसकलिङ्गस्य प्रवृत्तिर्भवेत् ! तथा संस्त्याने स्थितिप्रसवयोरभावात् कथं तिरोभावः, विनाशः, तिरोभवनमित्यादिभिः शब्दैर्व्यपदिश्येत ! अपिशब्देन 'संस्त्यानम्' इत्यपि स्वशब्देन कथं व्यपदिश्यत इति दर्शयति तथा स्थितौ संस्त्यानप्रसवयोरसम्भवात् । स्थितिस्वभावश्चेत्यादिभिः शब्दैः सा स्थितिः केन हेतुनोच्यत इति वाच्यम् ।
अथापि स्यात्– एषां स्थित्यादीनां परस्परमविभक्तरूपत्वात् प्रत्येकमेषु लिङ्गत्रययोग्यता भविष्यतीत्यत आह- अथाविभक्तमित्यादि । यदि ह्येषां परस्परमविभक्तं रूपं स्यात्, तदैकमेव परमार्थतो लिङ्गं स्यात्, न लिङ्गत्रयम् ॥ ११२६-११२९॥
अन्यस्त्वाह— “सामान्यविशेषाः स्त्रीत्वादयो गोत्वादय इव" इति, तं प्रत्याहगोत्वादय इवैतेऽपि यदि स्त्रीत्वादयो मताः ।
सामान्यस्य निरासेन तेऽपास्ता एवं तादृशाः ॥ ११३० ॥
२९८
[G.348] पूर्वं सामान्यपरीक्षायां सामान्यविशेषाणां निरस्तत्वात्, तद्रूपाणां स्त्रीत्वादीनामसम्भवादसम्भविलक्षणम् ॥ ११३० ॥
किञ्च - तेष्वेव सामान्यविशेषेष्वन्तरेणाप्यपरं सामान्यविशेषं जातिः, भावः, सामान्यमित्यादि स्त्रीपुन्नपुंसकलिङ्गस्य शब्दस्य प्रवृत्तिदर्शनादव्यापिता च लक्षणस्येति दर्शयतिजातिर्भावश्च सामान्यमिति वा तेषु किं' मतम् ' ।
न सामान्यानि युज्यन्ते सामान्येष्वपराणि हि ॥ ११३१ ॥
न सामान्यानि युज्यन्ते सामान्येष्वपराणीति । "नि: सामान्यानि सामान्यानि " इति सिद्धान्तात् । एतच्च वैशेषिकसिद्धान्ताश्रयेणोक्तम् ।
यदा तु रग़मान्येष्वपराणि सामान्यानीष्यन्ते वैयाकरणैः यथोक्तम्''अर्थजात्यभिधानेऽपि सर्वे जात्यभिधायिनः । व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः ॥"
( वा० प० ३.१.११ )
44
१-१. सम्मतम् - पा०, गा० ।
२. भर्तृहरिणेति शेषः ।