________________
शब्दार्थपरीक्षा
२९९ न हि शास्त्रान्तरपरिदृष्टा जातिव्यवस्था नियोगतो वैयाकरणैभ्युपेतव्या। प्रत्ययाभिधानान्वयव्यापारकार्योन्नीयमानरूपा हि जातयः, न हि तासामियत्ता काचित्। अतो यच्चोदितकार्यदर्शनात् सामान्याधारा जाति: सती जातय इत्यस्याः श्रुतेर्निबन्धनमिति। व्यापारलक्षणा इति अभिधानप्रत्ययव्यापारतो व्यवस्थितलक्षणा इत्यर्थः । तदानन्तरोक्तमेव दूषणम्- "सामान्यस्य निरासेन तेऽपास्ता एव यादृशाः" (तत्त्व० ११३०) इति ॥ ११३१॥ इदं च साधारणं दूषणमाह
अभावो निरूपाख्यत्वं तुच्छतेत्यादि वा कथम् !
सामयिक्येव तेनैषा लिङ्गत्रितयसंस्थितिः॥११३२॥ न ह्यसत्सु शशविषाणादिषु जातिरस्ति, वस्तुधर्मत्वात्तस्य-इत्यतस्तेष्वभावादिशब्दप्रयोगो न प्राप्नोति । तस्मादव्यापिनी लिङ्गव्यवस्था। तेनेच्छारचितसङ्केतमात्रभाविन्येवेयं लिङ्गत्रितयव्यवस्थेति सिद्धम् ॥ ११३२॥ सङ्ख्याया अपि वस्तुगतान्वयव्यतिरेकानुविधानाभावं दर्शयन्नाह
सङ्ख्याऽपि सामयिक्येव कल्प्यते हि विवक्षया।
भेदाभेदविवेकेऽपि . दारादिविपिनादिवत्॥११३३॥ सङ्ख्यापि सामयिक्येव, न वास्तवी; दारादिष्वपि वास्तवे भेदे विवक्षावशेनोपकल्पित्वात् । अतो नासिद्धो हेतुः । तथा हि- बहुत्वैकत्वादिसङ्ख्या न वस्तुगतभेदाभेद-[G:349] लक्षणा, तत्र' आप:', दाराः, सिकता, वर्षा-इत्यादावसत्यपि वस्तुतो भेदे बहुत्वसङ्ख्या परिवर्त्तते। तथा वनम्, त्रिभुवनम्, 'जगत्, षण्णगरीत्यादिष्वसत्यप्यभेदेऽर्थस्यैकत्वसङ्ख्या व्यपदिश्यत इति। अतो नासिद्धता हेतोः। नाप्यनैकान्तिकः; सर्वस्य सर्वधर्मत्वप्रसङ्गात्। सपक्षे भावाच्च न विरुद्धः ॥ ११३३॥ ..
नन्क्त्यिादिना कुमारिलमतेन हेतोरसिद्धतामाशङ्कते
.. ननु व्यक्तौ च जातौ च दारादिश्चेत् प्रयुज्यते। . . व्यक्तेरवयवानां वा सङ्ख्यामादाय वर्तते॥११३४॥
वनशब्दः । पुनर्व्यक्तीर्जातिसङ्ख्याविशेषिताः। ..... बह्वींराहाथ वा जातिं बहुव्यक्तिसमाश्रिताम्॥११३५॥
स ह्याह-दारादिशब्दः कदाचिज्जातौ प्रसज्यते, कदाचिद्व्यक्तौ। तत्र यदा जातो, तदा व्यक्तिगतां सङ्ख्यामादाय वर्तते, व्यक्तयश्च बढ्यो योषितः । यदा तु व्यक्तौ प्रयुज्यते तदा तद्व्यक्त्यवयवानां पाणिपादादीनां बहुत्वसङ्ख्यामादाय वर्तते । वनशब्देन तु धक्खदिरपलाशादिविलक्षणव्यक्तयस्तत्समवेतवृक्षत्वजातिगतसङ्ख्याविशिष्टाः प्रतिपद्यन्ते, तेन 'वनम्' इत्येकवचनं भवति; जातिगतैकसङ्ख्याविशिष्टद्रव्याभिधानात्। अथवा-धवादिव्यक्तिसमाश्रिता जातिरेव वनशब्देनोच्यते, तेनैकवचनं भवति; जातेरेकत्वादिति ॥ ११३४-११३५ ॥ नन्क्त्यिादिना प्रतिविधत्ते
ननु चैतेन विधिना सर्वमेकं वचो हतम्। १-१. पा०, गा० पुस्तकयो स्ति। २. पा०, मा० पुस्तकयो स्ति। ३-३. त्वाम्र०- पा०, गा० ।