________________
३००
तत्त्वसंग्रहे नान्यत्रास्ति विवक्षा चेत् सैवास्त्वस्य निबन्धनम्॥११३६॥ एतेन यथोक्तेन विधिना सर्वम्=वृक्षः, घट:' इत्यादयेकवचनम्, हतम् उत्सन्नं स्यात्; सर्वत्रैवास्य न्यायस्य तुल्यत्वात्। तथा ह्यत्रापि शक्यमेवं वक्तुम्
"तत्र व्यक्तौ च जातौ वृक्षादिश्चेत् प्रयुज्यते" इत्यादि। ___ अथ मतम्- अन्यत्र वृक्षादौ, व्यक्तेरवयवानां च सङ्ख्याविवक्षा नास्तीति? यद्येवम्, न तर्हि वस्तुगतान्वयाद्यनुविधायिनी सङ्ख्या; विवक्षाया एवान्वयव्यतिरेकानुविधानात्। ततश्च सैव विवक्षा 'दाराः' इत्यादिष्वस्य बहुवचनस्य निबन्धनमस्तु, भेदाभावेऽप्येकमपि वस्तु विवक्ष्यत इत्यतो नासिद्धता हेतोः ॥ ११३६ ॥ [G.350] यच्चोक्तम्- 'वनशब्दो जातिसङ्ख्याविशेषिता व्यक्तीराह' (तत्त्व ११३५) इति, तत्राह
जातेरपिन सङ्ग्याऽस्ति भावे वा तद्विशेषिताः।
कथं सम्बद्धसम्बन्धाद् यदि सम्बन्धतोऽपि वा॥११३७॥ न हि जातेः सङ्ख्यास्ति; द्रव्यसमाश्रित्वात् तस्याः। अथेयं वैशेषिकप्रक्रिया नाश्रीयते, तदा भावे वा सङ्ख्यायास्तया कथं वा धवादिव्यक्तयो विशेषिताः सिध्यन्ति । स्यादेतत्सम्बन्धसम्बन्धात्, तत्सम्बन्धाद्वा सिध्यन्ति। तथा हि- यदा जातेर्व्यतिरेकिणी सङ्ख्या तदैकत्वसङ्ख्यासम्बद्धया जात्या धवादिव्यक्तीनां सम्बन्धात् पारम्पर्येण तथा धवादिव्यक्तयो विशेष्यन्ते, तदा तु जातेरव्यतिरिक्तैव सङ्ख्या तदा साक्षादेव सम्बन्धात् तया विशेष्यन्त इत्यतो जातिसङ्ख्याविशेषिताः सिध्यन्ति ? ॥ ११३७॥ .
यद्येवमभिधीयेत वनमेकोऽपि पादपः।
बहवोऽपि हि कथ्यन्ते सम्बन्धादेव सोऽस्ति च॥११३८॥ यदि सम्बन्धसम्बन्धतो वा धवादिव्यक्तिषु वनशब्दस्य प्रवृत्तिः, तदैकोऽपि पादपः 'वनम्' इत्येवमुच्यते; प्रवृत्तिनिमित्तस्य विद्यमानत्वात्। तथा हि- बहवोऽपि धवादयो जातिसङ्ख्यासम्बन्धादेव'वनम्' इत्युच्यन्ते, नान्यतः, स च सम्बन्ध एकस्मिन्नपि पादपेऽस्तीति किमिति न तथोच्येत!॥ ११३८॥ "अथ वा जातिं बहुव्यक्तिसमाश्रिताम्" (तत्त्व० ११३५) इत्यत्राह
बहुव्यक्त्याश्रिता या च सैवैकस्यामपि स्थिता।
तन्निमित्तस्य तुल्यत्वात् तत्रापि वनधीर्भवेत्॥११३९॥ अस्मिन्नपि हि पक्षे एकस्यापि तरोः 'वनम्' इत्यभिधानं स्यात् । तथा हि-येनासौ वनशब्देन जातिर्बहुव्यक्त्याश्रिताऽभिधीयते; सैवेकस्यामपि धवादिव्यक्तौ व्यवस्थिता, ततश्च तस्या वनधियो निमित्तस्य सर्वत्र तुल्यत्वात् तत्रैकत्रापि पादपे किमिति वनधीन भवेत् ॥११३९॥ अन्वयव्यतिरेकाभ्यांमत्यादिना हेतुत्वमुपसंहरति- .. .
__ अन्वयव्यतिरेकाभ्यामेकादिवचसस्ततः । १. पा०, गाः पुस्तकयो स्ति।