________________
शब्दार्थपरीक्षा
३०१ नियमोऽयं विवक्षातो नार्थात् तद्वयभिचारतः॥११४०॥ तव्यभिचारत इति । तस्यार्थस्य व्यभिचारात्॥११४०॥ [G.351) "लिङ्गसङ्ख्यादिसम्बन्धो न चापोहस्य विद्यते" (तत्त्व० ९७२) इत्यत्रादिग्रहणेन यः क्रियाकालादिसम्बन्धो निर्दिष्टः, तत्राह
क्रियाकालादियोगोऽपि पूवमव निराकृतः।
तस्मात् सांकेतिका एते न व्यक्तिष्वपि भाविनः॥११४१॥ पूर्वमेव कर्मकालादिपदार्थनिषेधे क्रियादियोगस्य निराकृत्वादयुक्तमेषामपि वस्तुधर्मत्वम्। सङ्केते भवाः साङ्केतिकाः ॥११४१॥
भवतु वा वस्तुधर्मत्वमेषाम्, तथापि प्रतिबिम्बलक्षणस्यापोहस्य भ्रान्तैर्बाह्यव्यक्तिरूपत्वेनावसितत्वाद् अध्यवसायवशाद् व्यक्तिद्वारको लिङ्गसङ्ख्यादिसम्बन्धो भविष्यति, तेन यदुक्तम्
"व्यक्तेश्चाव्यपदेशत्वात् तद्द्वारेणापि 'नास्त्यसौ" (तत्त्व० ९७२) इति, तदनैकान्तिकम्, संवृत्तिपक्षे चासिद्धमिति दर्शयति
व्यक्तिरूपावसायेन यदि वाऽपोह उच्यते।
तल्लिङ्गाद्यभिसम्बन्धो व्यक्तिद्वारोऽस्य विद्यते॥११४२॥ अपोह उच्यत इति । शब्देनेति शेषः । तदिति तस्मात् अस्येति अपोहस्य ॥११४२ ॥ "आख्यातेषु च नान्यस्य" (तत्त्व० ९७३) इत्यादावाह
अभिप्रेते निवेशार्थ बुद्धेः शब्दः प्रयुज्यते।
अनभीष्टव्युदासोऽतः सामर्थ्येनैव सिध्यति॥११४३॥ आख्यातेष्वन्यनिवृत्तिर्त सम्प्रतीयत इत्यसिद्धम्, तथा हि-जिज्ञासिते कस्मिंश्चिदर्थे श्रोतुर्बुद्धेर्निवेशाय शब्दः प्रयुज्यते व्यवहर्तृभिः, न व्यसनितया, तेनाभीष्टार्थप्रतिपत्तौ सामर्थ्यादनभीष्टव्यवच्छेदः प्रतीयत एव; अभीष्टानभीष्टयोरन्योन्यव्यवच्छेदरूपत्वात् ॥ ११४३ ॥
सर्वमेवाभीष्टमिति चेत्? . . . सर्वमेव न चाभीष्टं सर्वार्थानियमाप्तितः।
तत् पचत्यादिशब्दानां विनिवर्त्य परिस्फुटम्॥११४४॥ यदि. सर्वमेवाभीष्टं स्यात्, तदा प्रतिनियतः शब्दार्थो न प्राप्नोति, ततश्च या कस्यचिदर्थपरिहारेण श्रोतुः क्वचिदर्थे शब्दात् प्रवृत्तिः सा न प्राप्नोति। तस्मात् 'सर्वमेवाभीष्टम्' इत्येतदयुक्तम्। 'तत्=तस्मात्, पचतीत्यादिशब्दानामनभीष्टव्यवच्छेदः सामर्थ्यात् रेस्फुटतरमवगम्यत एव॥११४४॥ [G.352] तथा हीत्यादिना तमेव सामर्थ्यगम्यमनभीष्टव्यवच्छेदं दर्शयति
तथा हि पचतीत्युक्ते नोदासीनोऽवतिष्ठते। भुङ्क्ते दीव्यति वा नेति गम्यतेऽन्यनिवर्त्तनम्॥११४५॥
औदासीन्यमतश्चैवमस्त्यन्यच्च क्रियान्तरम्। १. सास्त्यसौ- पा०, गा०। .. २. पा०, गा० पुस्तकयो स्ति। ३. तत्स्फुट०- पा०, गा० ।