SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ तत्त्वसंग्रहे यच्चोक्तम्– “ भवद्भिः शब्दभेदोऽपि तन्निमित्तो न लभ्यते " (तत्त्व० ९६०) इति, यादृशोऽर्थान्तरापोहो वाच्योऽयं प्रतिपादितः । शब्दान्तरव्यपोहोऽपि तादृगेवावगम्यताम् ॥ १०८७ ॥ यादृश इति प्रतिबिम्बात्मा । तस्य च प्रतिबिम्बान्तराद् भेदः स्फुटतरमेव संवेद्यत इति । अतो विस्तरेण यदुक्तं तत् सर्वमसङ्गतमिति भावः ॥ १०८७ ॥ " न गम्यगमकत्वं स्यात् " ( तत्त्व० ९६३ ) इत्यादिप्रयोगे प्रतिविधानमाहवस्त्वित्यध्यवसायत्वान्नावस्तुत्वमपोहयोः । प्रसिद्धं सांवृते मार्गे तात्त्विके त्विष्टसाधनम् ॥ १०८८ ॥ यदि ' अवस्तुत्वात्' इति सामान्येनोपादीयते तदा हेतुरसिद्धः; यतः प्रतिबिम्बात्मनोर्वाच्यवाचकापोहयोर्बाह्यवस्तुत्वेन भ्रान्तैरध्यवसितत्वात् सांवृत्तं वस्तुत्वमस्त्येव ॥ १०८८ ॥ अथ पारमार्थिकमवस्तुत्वमाश्रित्य हेतुरभिधीयते, तदा सिद्धसाध्यता; न हि परमार्थतोऽस्माभिः किञ्चिद्वाच्यं वाचकं चेष्यते । एतदेव दर्शयति न वाच्यं वाचकं वापि परमार्थेन किञ्चन । क्षणभङ्गिषु भावेषु व्यापकत्त्रवियोगतः ॥ १०८९ ॥ [G.338] व्यापकत्ववियोगत इति । क्षणिकत्वेन सङ्केतव्यवहाराप्तकालव्यापकत्वाभावात् स्वलक्षणस्येत्यर्थः । स्यादेतत् – नास्माभिस्तात्त्विको वाच्यवाचकभावो निषिध्यते, किं तर्हि ? तात्त्विकीमपोहयोरवस्तुतामाश्रित्य सांवृत्तमेव गम्यग्रमकत्वं निषिध्यते, न भाविकम्, तेन न हेतोरसिद्धता, नापि सिद्धसाध्यता प्रतिज्ञादोषो भविष्यति ॥ १०८९ ॥ २९० तत्राह द्वयोरपि हि सांवृतत्वे तात्त्विकत्वे चाश्रीयमाणे स्यादेतद्दोषद्वयम् ? इत्यत आहतद् गम्यगमकत्वं चेत् सांवृतं प्रतिषिध्यते । तात्त्विकीं समुपाश्रित्य विनिवृत्त्योरवस्तुताम् ॥ १०९८ ॥ तथापि व्यभिचारित्वं कल्पनानिर्मितैरर्थैः २ दुर्वारमनुषज्यते । शब्दैस्तद्वाचक़ैरपि ॥ १०९१ ॥ एवं सति हेतोरनैकान्तिकता; कल्पनारचितेषु महाश्वेतादिष्वर्थेषु तद्वाचकेषु च शब्देषु परमार्थतो वस्तुत्वाभावेऽपि सांवृतस्य वाच्यवाचकभावस्य दर्शनात् । तद् दर्शयति — कल्पनानिर्मितैरित्यादि ॥ १०९०-१०९१॥ स्यादेतत्- तत्रापि महाश्वेतादिषु सामान्यं वाच्यं वाचकं च परमार्थतोऽस्त्येव, ततो न तैर्व्यभिचारः ? इत्याशङ्कयाह न हि तेष्वस्ति सामान्यं वाच्यं तस्य च वाचकम् । सामान्यपरीक्षायां सामान्यस्य विस्तरेण निरस्तत्वान्न तेषु सामान्यं वाच्यं वाचकं चास्तीत्यनैकान्तिकता हेतोः । तस्येति सामान्यस्य । 'वाचकम्' इत्यत्रापि सामान्यमिति प्रकृतेन सम्बध्यते । ९. पा०, गा० पुस्तयोर्नास्ति । २. विकल्परचितैरर्थे - पा०, गा० ।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy