________________
२८९
शब्दार्थपरीक्षा प्रकृतीशादिजन्यत्वं वस्तूनां नेति चोदिते।
प्रकृतीशादिजन्यत्वं न हि वस्तु प्रसिध्यति॥१०८२॥ तथा हि-प्रकृतीश्वरकालादिकृतत्वं भावानां भवद्भिर्मीमांसकैरपि नेष्यत एव; तस्य च प्रतिषेधे सत्यपि यथा न वस्तुत्वमापद्यते, तथा अपोह्यत्वेऽप्यभावस्य वस्तुत्वापत्तिर्न भविष्यतीत्यनेकान्तः ॥ १०८२ ।।
यदुक्तम्- "तत्रासतोऽपि भावत्वमिति क्लेशो महान् भवेत्" (तत्त्व० ९५८) इति । तदप्यनेनैवानैकान्तत्वप्रतिपादनेन प्रतिविहितमिति दर्शयति
नातोऽसतोऽपि भावत्वमिति क्लेशो न कश्चन।
तस्य सिद्धौ च सत्ताऽस्ति सा चासत्ता प्रसिध्यति॥१०८३॥ "तदसिद्धौ न सत्तास्ति न चासत्ता प्रसिध्यति" (तत्त्व० ९५८) इत्यत्राह-तस्य सिद्धौ च सत्ताऽस्तीत्यादि। तस्याभावस्य यथोक्तेन प्रकारेण सिद्धौ सत्यामपि च भावस्य सत्ता सिध्यत्येव; तस्य स्वस्वभावव्यवस्थितत्वात् । या चाभावस्य यथोक्तेन प्रकारेण सिद्धिः सैवासत्तेति प्रसिध्यति । एतच्च प्रतिसमाधानस्य समानत्वादिति कृत्वा अत्रैव प्रतिविहितम् ॥ १०८३ ॥
इदानीं यथानुक्रमेव प्रतिसमाधानमाह । तत्र यदुक्तम्- "अभावस्य च योऽभावः" (तत्त्व० ९५६) इत्यादि, तत्राह
अगोतो विनिवृत्तिश्च गौर्विलक्षण इष्यते।
भाव एव ततो नायं गौरगोर्मे प्रसज्यते॥१०८४॥ ‘भाव एव भवेत्' इत्येतन्नानिष्टत्वापादनम्; दृष्टत्वात्। तथा हि- अगोरूपादश्वादेर्गोर्भावविशेषरूप एव विलक्षण इष्यते, नाभावात्मा, तेन भाव एव भवेत् । अगोतश्च गोवॆलक्षण्यस्येष्टत्वादगोर्न गोत्वप्रसङ्गः ॥१०८४ ॥ G.337] यच्चोक्तम्- "न ह्यवस्तुनि वासना" (तत्त्व० ९५९) इति, तदसिद्धम्, अनैकान्तिकं. चेति दर्शयन्नाह- .
अवस्तुविषयेऽप्यस्ति चेतोमात्रविनिर्मिता। विचित्रकल्पनाभेदरचितेष्विव वासना॥१०८५॥ - तंतश्च वासनाभेदाद् भेदः सद्रूपतापि च।
प्रकल्प्यते ह्यपोहानां कल्पनारचितेष्विव ॥१०८६॥ अवस्तुविषयं चेतो नास्तीत्येतदसिद्धम् । तथा हि- 'उत्पाद्यकत्वाविषयसमुद्भूतवस्त्वाकारसमारोपेण प्रवर्तत एव चेतः, तच्चानागतसजातीयविकल्पोत्पत्तयेऽनन्तरचेतसि वासनामाधत्त एव; यतः पुनरपि सन्तानपरिपाकवशात् प्रबोधकं प्रत्ययमासाद्य तथाविधमेव चेतः समुपजायते । तद्वदपोहानामपि परस्परतो भेदः, सद्रूपता च कल्पनावशाद् भविष्यतीत्यनैकान्तिकता। अवयवार्थस्तु सुबोधत्वान्न विभक्तः ॥ १०८५-१०८६॥ १. वस्तुत्व०- पा०, गा।
२. पा०, गा० पुस्तकयो स्ति। ३. सचेदिल- पा०, गा० / ४. सा मता- पाल, गा०।
५. उत्पाद्यकत्वाल्पविषयः-गा।