________________
२८८
तत्त्वसंग्रहे व्यावृत्तितद्वतोरभेदः, तथापि कल्पनारचित्तं भेदमाश्रित्य विशेष्यविशेणभावो भविष्यति ॥१०७४-१०७६॥
यच्चोक्तम्- "यदा 'चाशब्दवाच्यत्वान्न व्यक्तीनामपोह्यता" (तत्त्व० ९५४) इत्यादि। तत्राह
प्रतिभासश्च शब्दार्थ इत्याहुस्तत्त्वचिन्तकाः। दृश्यकल्पाविभागज्ञो लोको बाह्यं तु मन्यते॥१०७७॥ तस्यातोऽध्यवसायेन व्यक्तीनामेव वाच्यता।
तत्त्वस्तु न शब्दानां वाच्यमस्तीति साधितम्॥१०७८ ॥ 'व्यक्तीनामवाच्यत्वात्' इत्यसिद्धम्। तथा हि-यद्वयक्तीनामवाच्यत्वमस्माभिर्वर्णितं तत् परमार्थचिन्तायाम्, न पुनः संवृत्त्यापि। संवृत्त्या तु व्यक्तीनामेव वाक्यत्वमविचाररमणीयतया प्रसिद्धमित्यसिद्धो हेतुः। दृश्यः बाह्यः स्वलक्षणात्मा, कल्पः विकल्प्यो विकल्पज्ञानपरिवर्ती प्रतिभासः। अथ पारमार्थिकमवाच्यत्वं हेतुत्वेनोपादीयते, तदाऽपोह्यत्वमपि व्यक्तीनां परमार्थतो नेष्टमित्यतः सिद्धसाध्यता? इति दर्शयति- तत्त्वतश्चेत्यादि ॥ १०७७१०७८॥
इत्थमित्यादिना हेतोरसिद्धतामेव निगमयति
___ इत्थं च शब्दवाच्यत्वाद् व्यक्तीनामस्त्यपोह्यता। .
यच्चोक्तम्-"तदापोह्येत सामान्यं तस्यापोहाच्च वस्तुता" (तत्त्व० ९५४) इति, तत्रापि 'अपोह्यत्वात्' इत्यस्य हेतोरसिद्धत्वमनैकान्तिकत्वं चेति दर्शयति
, सामान्यस्य तु नापोहो न चापोहेऽपि वस्तुता॥१०७९॥
अपोह इति।व्यक्तीनामेवापोहस्य प्रतिपादितत्वात्। न चापोहेऽपि वस्तुतेत । साध्यविपर्यये हेतोर्बाधकप्रमाणाभावादिति भावः ॥ १०७९ ॥ यच्चोक्तम्- "नापोह्यत्वमभावानाम्" (तत्त्व० ९५५) इत्यादि, तत्राह
नाभावोऽपोह्यते ह्येवं नाभावोऽभाव इत्ययम्।
भावस्तु न तदात्मेति तस्येष्टैवमपोह्यता॥१०८०॥ 'अभावो नाभावः' इत्येवमभावो नापोह्यते, येनाभावरूपतायास्त्यागः स्यात्, किं तर्हि ? भावः, यः स विधिरूपत्वादभावरूपविवेकेनावस्थित इति सामर्थ्यादपोह्यत्वं तस्याभावस्येष्टम् ॥ १०८०॥ [G.336] एनमेव स्पष्टीकुर्वन्नाह
यो नाम न यदात्मा हि स तस्यापोह उच्यते।
न भावोऽभावरूपश्च तदपोहे न वस्तुता॥१०८१॥ तदपोह इति । तस्याभावस्यैवमपोहे सति न वस्तुता प्राप्नोति ॥ १०८१ ॥
अत्रोभयपक्षप्रसिद्धोदाहरणोपदर्शनेनानैकान्तिकतामेव स्फुटयन्नाह१. वाच्यत्वं न-पा०, गा०। २. तत्त्वतश्च-पा०, गा०। ३. जै०, पा० पुस्तयो स्ति। ४. तदापोह्यो न-पा०, गा०।
५. एतदेव-पा०, गा०।