________________
शब्दार्थपरीक्षा
२८७ हेत्वर्थः करणार्थश्च पूर्ववत् तेन चात्मना। पूर्ववदिति। यथा 'अर्थान्तरनिवृत्तिविशिष्टानाह' इत्यत्र 'अन्यान्यत्वेन' इत्यादिना दर्शितम, 'तथात्रापि योजनीयमित्यर्थः। [G.334]अथ वा- सर्वत्रैवेत्थम्भूतलक्षणा तृतीयेयमिति दर्शयति- तेन चात्मनेति ।
ननु चार्थान्तरनिवृत्तिर्बाह्यवस्तुगतो धर्मः, सा कथं प्रतिबिम्बाधिगमे हेतुभावं करणभावं वा प्रतिपद्यत इति? अत्राह
यदि वस्तु विजातीयान स्याद् भिन्नं न तत्तथा॥१०७३॥ यदि हि विजातीयात् पदार्थाव्यावृत्तं वस्तु न स्यात्, तदा न तत्प्रतिबिम्बात्मकं तथा विजातीयपरावृत्तवस्त्वात्मना व्यवसीयेत । तस्मादर्थान्तरपरावृत्तेर्हेतुभावः, करणभावश्च युज्यत इति भावः ॥ १०७३॥ "न चान्यरूपमन्यादृक्कुर्याज्ज्ञानं विशेषणम्' (तत्त्व० ९४८) इत्यादावाह- ..
अगोनिवृत्तिरन्यत्वं तस्य चात्मगतैव सा। भेदोक्ताक्प्यभावस्तु केवलो न निवर्त्तनम् ॥१०७४॥
तद्विशेषभावेऽपि वस्तुधीन विहीयते। यदि ह्यन्यव्यावृत्तिर्भावरूपा वस्तुनो विशेषणत्वेनाभिप्रेता स्यात्, तदैतत् सव दूषणमुपपद्यते, यावता वस्तुस्वरूपैवान्यनिवृत्तिर्विशेषणत्वेनोपादीयते, तेन विशेषणानुरूपैव विशेष्यबुद्धिर्भवत्येव । तथा हि-अंगोनिवृत्तिर्या गोरभिधीयते साऽश्वादिभ्यो गोर्यदन्यत्वं तत्स्वभावैव, नान्या। ततश्च यद्यप्यसौ व्यतिरेकेणागोनिवृत्तिर्गोरित्यभिधीयते भेदान्तरप्रतिक्षेपमात्रजिज्ञासायाम्, तथापि परमार्थतस्तस्य गोरात्मगतैव सा, यथा-अन्यत्वम्। न ह्यन्यत्वं नामान्यस्माद् वस्तुनोऽन्यत्; अपि तु तदेव; अन्यथा तद्वस्तु ततोऽन्यन्न सिध्येत् । तत्-तस्मात्, विशेषणभावेऽप्यन्यव्यावृत्तेर्विशेष्ये वस्तुधीर्भवत्येव।
स्यादेतद्-व्यतिरिक्तमेव हि विशेष्याद्विशेषणं प्रसिद्धम्, यथा-दण्डः पुरुषस्य; व्यावृत्तिश्चाव्यतिरिक्ता वस्तुनः, तत्कथमसौ तस्य विशेषणं युज्यते? इत्याह' ' कल्पनानिर्मितं चेदमभेदेऽपि विशेषणम्। १०७५॥
सोऽपकृष्य ततो धर्मः स्थापितो भेदवानिव। .....येन दण्डादिवत् तस्य जायते हि विशेषणम्॥१०७६ ॥
न हि परमार्थेन न किञ्चित् कस्यचिद्विशेषणं युक्तम्; अनुपकारकस्य विशेणत्वायोगात्, उपकारकत्वे चाङ्गीक्रियमाणे कार्यकाले कारणस्यानवस्थानादयुगपत्कालभाविनोर्न विशेषणविशेष्यभावो युक्तः, युगपत्कालभावित्वे तु तदानीं सर्वात्मना परिनिष्पत्तेर्न परस्परमुपकारोऽस्तीति न युक्तो विशेषणविशेष्यभावः । तत्तस्मात् सर्वभावानां स्वस्वभावस्थितत्वेनाय:शलाकाकल्पत्वात् केवलं कल्पनयाऽमीषां [G.335] मिश्रीकरणम्। तेन परमार्थतो यद्यपि १. वात्मना-पा०, गा०।
२. तत्रापि-पा०।
३. वात्मनेति-पा०, गा०/ ४. बाधान्तर०-पा०, गा०/
५. निवृत्तिरित्यर्थः। ६. निवर्तते-पा०, गा० । ७. सापिकृष्य- जै०।।
८...न्यस्मिन्न-पा०, गा०।।