________________
२८६
तत्त्वसंग्रहे यद्येवम्, कथमा चार्येणोक्तम्- "नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानानाहुः" ( ) इति? अत आह
अर्थान्तरनिवृत्त्या' हि विशिष्टानिति यत् पुनः।
प्रोक्तं लक्षणकारेण तत्रार्थोऽयं विवक्षितः॥१०६७॥ कोऽसावर्थो विवक्षितः? इत्याह
अन्यान्यत्वेन ये भावा हेतुना करणेन वा। विशिष्टा भिन्नजातीयैरसङ्कीर्णा विनिश्चताः॥१०६८॥ . वृक्षादीनाहतान् ध्वानस्तद्भावाध्यवसायिनः।
ज्ञानस्योत्पादनादेतज्जात्यादेः प्रतिषेधनम्॥१०६९॥ द्विविधो ह्यर्थः- बाह्यः बुद्ध्यारूढश्च। तत्र बाह्ये न परमार्थतोऽभिधानं शब्दैः, [G.333] केवलं तदध्यवसायिविकल्पोत्पादादुचारादुक्तम्-शब्दोऽर्थानाहेति। उपचारस्य च प्रयोजनम्-जात्यभिधाननिराकरणमिति समुदायार्थः।। __ अवयवार्थस्तूच्यते
अन्यान्यत्वेनेति। अन्यस्मादन्यत्वम् व्यावृत्तिः, तेनान्यान्यत्वेन हेतुना करणेन वा वृक्षादयो भावा विशिष्टा निश्चिताः । अन्यतो व्यावृत्ताः, निश्चिता इति यावत्। एतेनार्थान्तरनिवृत्तिविशिष्टानित्यत्र पदे निवृत्त्या' इति तृतीयार्थो व्याख्यातः । ध्वानइति । शब्दः ॥१०६८१०६९॥ यस्तु बुद्ध्यारूढोऽर्थः, तस्य मुख्यत एव शब्दैरभिधानमिति दर्शयति
बुद्धौ ये वा विवर्तन्ते तानाहाभ्यन्तरानयम्।
निवृत्त्या च विशिष्टत्वमुक्तमेषामनन्तरम्॥१०७०॥ अयमिति ध्वानः । अथार्थान्तरनिवृत्तिविशिष्टत्वं कथमेषां योजनीयम् ? इत्याहनिवृत्त्या चेत्यादि। अनन्तरमिति' । “अन्यान्यत्वेन" (तत्त्व० १०६८) इत्यादिना । तेषामपि बुद्धिसमारूढानामर्थानामन्यतो व्यावृत्तया प्रतिभासनात् ॥ १०७०॥
ननु यदि न कश्चिदेव वस्त्वंश: शब्देन प्रतिपाद्यते, तत् कथमुक्तमाचार्येण "अर्थान्तरनिवृत्त्या कश्चिदेव वस्तुनो भागो गम्यते" इति? अत आह
अर्थान्तरपरावृत्त्या गम्यते तस्य वस्तुनः।
कश्चिद् भाग इति प्रोक्तं तदेव प्रतिबिम्बकम्॥१०७१॥ ननु बुद्धिधर्मत्वात् प्रतिबिम्बस्य कथं वस्तुभागत्वमुपपद्यते? इत्यत आह
अर्थान्तरपरावृत्तवस्तुदर्शनसंश्रयात् । . ___ आगतेस्तत्र चारोपात्तस्य भागोऽपदिश्यते॥१०७२॥
अर्थान्तरपरावृत्तवस्तुदर्शनद्वारायातत्वात् तत्रार्थान्तरपरावृत्ते वस्तुनि भ्रान्तैस्तादात्म्येनारोपितत्वात् तदेव प्रतिबिम्बकमुपचाराद् वस्तुनो भाग इति व्यपदिश्यते ॥ १०७२ ॥
अत्रापि अर्थान्तरपरावृत्त्या' इति तृतीयार्थं योजयन्नाह१-१. निवृत्त्याहुविशिष्टा - पा०, गा०। २. अन्तरमिति-जै०। ३. प्रतिपादनात्-पा०, गा० ।