________________
शब्दार्थपरीक्षा
२८५ सम्बन्धानुभवोऽप्यस्य व्यक्तं तेनोपपद्यते॥१०६१॥ तत्र स्वलक्षणात्मा तावदपोह इन्द्रियैरवगम्यत एव। 'यश्चार्थप्रतिबिम्बात्माऽपोहः, स परमार्थतो बुद्धिस्वभावत्वात् स्वसंवेदनप्रत्यक्षत एव सिद्धः । चकारोऽनुक्तार्थसमुच्चये। तेन प्रसज्यात्मापि सामर्थ्यात् प्रतीयत एव 'न तदात्मा परात्मा' इति दर्शितं भवति। तेनेदमेव स्वलक्षणादिरूपमपोहं दृष्ट्वा ज्ञात्वा च शब्दो लोकेन प्रयुज्यते, न तु सामान्य वस्तुभूतम्; तस्यासत्त्वादप्रतिभासनाच्च । यदेव च दृष्ट्वा लोकेन शब्दः प्रयुज्यते, तेनैव तस्य सम्बन्धोऽवगम्यते; नान्येन; अतिप्रसङ्गात्॥१०६०-१०६१॥
यदुक्तम्- "अगोशब्दाभिधेयत्वं गम्यतां च कथं पुनः" (तत्त्व ९४०) इति, अत्राह
तादृक् प्रत्यवमर्शश्च यत्र नैवास्ति वस्तुनि।
अगोशब्दाभिधेयत्वं विस्पष्टं तत्र गम्यते॥१०६२॥ यच्चोक्तम्- "सिद्धश्चागौरपोह्येत" (तत्त्व० ९४२) इत्यादि, तत्राह
गावोऽगावश्च संसिद्धा भिन्नप्रत्यवमर्शतः। शब्दस्तु केवलोऽसिद्धो यथेष्टं सम्प्रयुज्यते॥१०६३॥ न ह्यन्यग्रहणं वस्तु भिन्नं वित्तावपेक्षते।
अन्योऽन्याश्रयदोषोऽयं तस्मादस्मिन्निरास्पदः॥१०६४॥ स्वत एव हि गवादयो भावा भिन्नप्रत्यवमर्श जनयन्तो विभागेन सम्यग् [G.332] निश्चिताः। तेषु व्यवहारार्थं व्यवहर्तृभिर्यथेष्टं शब्दोऽसिद्धः प्रयुज्यते। तथा हि-यदि भिन्नवस्तुस्वरूपप्रतिपत्त्यर्थमन्यपदार्थग्रहणमपेक्षते, तदा स्यादितरेतराश्रयदोषः, यावताऽन्यग्रहणमन्तरेणैव भिन्नं वस्तु संवेद्यते, तस्मिन् भिन्नाकारप्रत्यवमर्शहेतुतया विभागेन सिद्धे सति गौरगौरिति च यथेष्टं सङ्केत; क्रियत इति कथमितरेतराश्रयत्वं भवेत् ! वित्तविति। वित्त्यर्थम् ॥ १०६३-१०६४॥ यच्चोक्तम्- "नाधाराधेयवृत्त्यादि" (तत्त्व० ९४४) इत्यादि, तत्राह
अवेद्यबाह्यतत्त्वाऽपि 'प्रकृत्योपप्लवादियम्। . . स्वोल्लेखं बाह्यरूपेण शब्दधौरध्यवस्यति॥१०६५॥ । एतावत् क्रियते शब्दैर्नार्थ शब्दाः स्पृशन्त्यपि।
नापोहेन विशिष्टश्च कश्चिदर्थोऽभिधीयते॥१०६६॥ न हि परमार्थेन कश्चिदपोहेन विशिष्टोऽर्थः शब्दैरभिधीयते। यतः प्रतिपादितमेतद् यथा-न किञ्चिदपि शब्दैर्वस्तु संस्पृश्यते, क्वचिदपि समयाभावादिति। तथा हि-शाब्दी बुद्धिरबाह्यार्थविषयापि सती स्वोल्लेखम् स्वाकारं बाह्यार्थतयाध्यवस्यन्ती जायते, न परमार्थतो वस्तुस्वभावं स्पृशति; यथातत्त्वमनध्यवसायात्॥१०६५-१०६६॥ १. यत्स्वार्थ-पा०, गा०।
२-२. पा०, गा० पुस्तकयो स्ति। ३. ०वस्तुस्वरूपं प्रति०-पा०, गा०।
४. पा० पुस्तके नास्ति; इति- गा०। ५. प्रकृष्टो०- पा०, गा०।
६. सामया०-पा०, गा०।