________________
२८४ .
तत्त्वसंग्रहे तदेव हि स्वलक्षणमविवक्षितभेदं सामान्यलक्षणमित्युक्तम्। सामान्येन= भेदापरामर्शन, लक्ष्यते-व्यवसीयत इति सामान्यलक्षणम्। नापरं पुनरिति । तीर्थिकाभिमतम्. तस्यानिष्टत्वात्। यथोक्तम्
"तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम्।" (प्र० वा० २-२५) इति। तथाऽपरमुक्तम्
"अतद्रूपपरावृत्तवस्तुमात्रसमाश्रयात् ।
सामान्यविषयं प्रोक्तं लिङ्गं भेदाप्रतिष्ठितेः ॥" ( ) इति। तेन साहचर्यमपि लिङ्गशब्दयोः स्वलक्षणेनैव कथ्यते। न चाप्यदर्शनमात्रेणास्माभिविपक्षे लिङ्गस्याभावोऽवसीयते, किं तर्हि ? अनुपलम्भविशेषादिति भावः ॥१०५६ ॥ यच्चोक्तम्- "शाबलेयाच्च भिन्नत्वम्" (तत्त्व० ९३७) इत्यादि, तत्राह
शबलापत्यतो भेदे बाहुलेयाश्वयोः समे।
तुरङ्गपरिहारेण गोत्वं किं तत्र वर्त्तते॥१०५७॥ इदं हि भवान् वक्तुमर्हति-शाबलेयाच्च 'बाहुलेयाश्वयोस्तुल्येऽपि भेदे सति किमिति तुरङ्गमपरिहारेण गोत्वं तत्रैव शाबलेयादौ वर्तते, नाश्व इति ॥ १०५७ ॥
स्यादेतत्-किमत्र वक्तव्यम, तस्य हि गोत्वस्याभिव्यक्तौ शाबलेयादिरेव समर्थः नाश्वादिः, अतस्तत्रैव तद्वर्त्तते, नान्यत्र । न घायं पर्यनुयोगो युज्यते, कस्मात् ? तस्याभिव्यक्ती स एव शाबलेयादिः समर्थो भवति, नान्य इति'; यतो वस्तुस्वभावप्रतिनियमोऽयम्, न हि वस्तूनां स्वभावः पर्यनुयोगमर्हति, तेषां स्वहेतुपरम्पराकृत्वात् स्वभावभेदप्रतिनियमस्येति? अत्राह
तस्य व्यक्तौ समर्थात्मा स एवेति यदीष्यते।
तुल्यप्रत्यवमर्शेऽपि सशक्तो न तुरङ्गमः॥१०५८॥ [G.331] तस्येति गोत्वस्य। स एवेति। शाबलेयादिः, न पुनरश्वः । यद्येवम्, सत्यपि भेदे सामान्यमन्तरेणापि तुल्यप्रत्यवमर्शोत्पादने शाबलेयादिरेव शक्तः, न तुरङ्गम इत्ययमस्मत्पक्षो न विरुध्यत एव॥ १०५८॥ . . ततश्च किं जातम्? इत्याह
तादृक् प्रत्यवमर्शश्च विद्यते यत्र वस्तुनि।
तत्राभावेऽपि गोजातेरगोऽपोहः प्रवर्त्तते॥१०५९॥ यत्र शाबलेयादौ वस्तुनि तादृक्-गौगौरिति, प्रत्यवमर्श:=प्रत्ययो जायते, तत्रैवासत्यामपि गोजातौ वस्तुभूतायामगोपोहः प्रतिबिम्बात्मा प्रवर्तते॥१०५९॥ यच्चोक्तम्- "इन्द्रियैः" (तत्त्व० ९३८) तदसिद्धमिति दर्शयन्नाह
अगोभिन्नं च यद् वस्तु तदक्षैर्व्यवसीयते। प्रतिबिम्बं तदध्यस्तं स्वसंवित्त्याऽवगम्यते॥१०६०॥
इदं दृष्ट्वा च लोकेन शब्दस्तत्र प्रयुज्यते। १. कुमारिल इत्यर्थः। २. बाहुलेयाच्च०-पा०, गा०। ३-३. पा० पुस्तके नास्ति; इति-गा० ।