________________
शब्दार्थपरीक्षा
२८३ स्यादेतत्- तस्यैवैकप्रत्यवमर्शस्य हेतवोऽन्तरेण सामान्यमेकं कथमर्था भिन्नाः सिध्यन्ति? इत्यत आह- ..
एकप्रत्यवमर्श हि केचिदेवापयोगिनः।
प्रकृत्या भेदवत्त्वेऽपि नान्य इत्युपपादितम्॥१०५०॥ प्रतिपादितमेतत् सामान्यपरीक्षायाम्-यथा धात्र्यादयोऽन्तरेणापि सामान्यमेकार्थक्रियाकारिणो भवन्ति, तथैव प्रत्यवमर्शहेतवो भिन्ना अपि भावाः केचिदेव भविष्यन्तीति ॥१०५०॥ " न चान्वयविनिर्मुक्ता" (तत्त्व ९३३) इत्यादावाह
अतद्रूपपरावृत्तं वस्तुमानं स्वलक्षणम्।
यत्नेन क्रियमाणोऽयमन्वयो न विरुध्यते॥१०५१॥ यद्यपि सामान्य वस्तुभूतं नास्ति, तथापि विजातीयव्यावृत्तस्वलक्षणमात्रेणैवान्वयः क्रियमाणो न विरुध्यते ॥ १०५१॥ कथम्? इत्याह
यस्मिन्नधूमत्तो भिन्नं विद्यते हि स्वलक्षणम्। तस्मिन्ननग्नितोऽप्यस्ति परावृत्तं स्वलक्षणम्॥१०५२॥ यथा महानसे चेह विद्यतेऽधूमभेदि तत्।
तस्मादनग्नितो भिन्न विद्यतेऽत्र स्वलक्षणम्॥१०५३॥ यस्मिन्निति प्रदेशे। इह च विद्यते स्वलक्षणमधूमतो भेदीति पक्षधर्मोपदर्शनम्। तस्मादित्यादिना प्रमाणफलोपदर्शनम्। यदि 'वाऽवयवपञ्चकमपि स्वलक्षणेनान्वये क्रियमाणे शक्योपदर्शनमिति दर्शयति ॥ १०५२-१०५३ ॥ इदं च कार्यहेतावुक्तम्। स्वभावहेतावाह. असतो नरशृङ्गादेर्यच्च भिन्नं स्वलक्षणम्।
बुद्धिदीपादिवत् सर्वं व्यावृत्तं तत् स्थिरादपि॥१०५४॥ . असद्रूपं तथा चेदं न शब्दादिस्वलक्षणम्।
.इत्यनिर्दिष्टभेदेन .. भवत्येवान्वयोऽमुना॥१०५५॥ यदसतो व्यावृत्तं स्वलक्षमताद्रूप्यात् तत् सर्वं स्थिरादपि व्यावृत्तम्, यथा [G.330] बुद्धिदीपादयः। तथा चेदं शब्दादिस्वलक्षणमसद्रूपं न भवतीति । अतोऽमुना न्यायेन विशेषासंस्पर्शात् स्वलक्षणेनान्वयः क्रियमाणो न विरुध्यते।अयं च सत्त्वात्' इत्यस्य हेतोरन्वयो दर्शितः ॥ १०५४-१०५५ ।। ।।
___ यद्येवम्, स्वलक्षणेनैवान्वयः, कथमिदानी सामान्यलक्षणविषयमनुमानं सिध्यति? इत्यत आह
अविविक्षतभेदं च तदेव परिकीर्तितम्। सामान्यलक्षणत्वेन नानिष्टेरपरं पुनः॥१०५६॥ २. शय्यो-पा०।
३. इत्थं नि०- पा०, गा०।
१-१. यद्वा-गा।