________________
२८२ .
तत्त्वसंग्रहे. वृक्षशब्दो हि सर्वेष्वेव धवखदिरपलाशादिष्ववृक्षव्यवच्छेदमात्रानुस्यूतं प्रतिबिम्बकं जनयति । तेनास्य बहुविषयत्वात् सामान्यं वाच्यमुच्यते। धवादिशब्दस्य तु खदिरादिव्यावृत्तिः कतिपयपादपावसायिविकल्पोत्पादकत्वाद् विशेषो वाच्य उच्यते ॥ १०४४ ।। "ननु चापोह्यभेदेन" (तत्त्व० ९२७) इत्यादावाह
ताश्च व्यावृत्तयोऽर्थानां कल्पनामात्रनिर्मिताः।।
नापोयाधारभेदेन भिद्यन्ते परमार्थतः॥१०४५॥ [G.328] यदि हि पारमार्थिकोऽपोह्यभेदेनाधारभेदेनापोहभेदोऽभीष्टः स्यात्, तदैतद् दूषणं स्यात्; यावता कल्पनया सजातीयपदार्थभेदनिबन्धना व्यावृत्तयो भिन्नाः कल्प्यन्ते, न परमार्थतः ॥ १०४५॥ ताश्च कल्पनावशाद् व्यतिरिक्ता एव वस्तुनो भासन्ते, न परमार्थत इति दर्शयति
तासां हि बाह्यरूपत्वं कल्पितं तन्न वास्तवम्। कस्माद् वास्तवं न भवति? इत्याह
_ भेदाभेदौ च तत्त्वेन वस्तुन्येव व्यवस्थितौ ॥१०४६ ॥ परमार्थतस्तु विकल्पा एव भिद्यन्त इति दर्शयति
स्वबीजानेकविशृिष्टवस्तुसंकेतशक्तितः । विकल्पास्तु विभिद्यन्ते तद्रूपाध्यवसायिनः॥१०४७।। नैकात्मतां प्रपद्यन्ते न भिद्यन्ते च खण्डशः।
स्वलक्षणात्मका अर्था विकल्प: प्लवते त्वसौ॥१०४८॥ स्वबीजं च अनादिविकल्पवासना, अनेकस्माद् विशृिष्टं वस्तु च सङ्केतश्चेति विग्रहः, तेषां शक्ति:-सामर्थ्यम्। ततो विजातीयानेकपदार्थव्यावृत्तवस्त्वव्यवसायिनो विकल्पा भिद्यन्ते, न त्वार्थाः। तथा हि- वृक्षत्वादिसामान्यरूपेण नैकात्मतां धवादयः प्रतिपद्यन्ते। केवलं विकल्प एव तथा प्लवते, न त्वर्थः । यथोक्तम्
"संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः.। रूपमेकमनेकं च तेषु बुद्धरुपप्लवः॥"
. (प्र० वा० ३.८६) इति ॥ १०४७-१०४८ ॥ यच्चोक्तम्- "न चाप्रसिद्धसारूप्यान्" (तत्त्व० ९३१) इत्यादि, तत्राह
एकधर्मान्वयासत्त्वेऽप्यपोयापोहगोचराः।
वैलक्षण्येन गम्यन्ते भिन्न प्रत्यवमर्शतः॥१०४९॥ अपोह्यश्चापोहगोचराश्चेति विग्रहः। तत्रापोह्या अश्वादयः; गोशब्दस्य तदपोहेन प्रवृत्तत्वात् । अपोहगोचराः शाबलेयादयः; तद्विषयत्वादगोपोहस्य। तेन यद्यप्येकस्य [G.329] सामान्यरूपस्यान्वयो नास्ति, तथाप्यभिन्नप्रत्यवमर्शहेतवो ये, ते प्रसिद्धसारूप्या भवन्ति । ये तु विपरीताः, ते विपरीता इति ॥ १०४९ ॥ १. ०मात्रानुमानं- पा०, गा०। २. वृक्षशब्दस्येत्यर्थः।
३. बहु.... यत्वात्-पा०। ४-४. वातादिविकल्प०-- पा०, गा०।
५. वस्तुव्यवसायिनो-पा०, गा०/