________________
शब्दार्थपरीक्षा
२८१ यथा सप्रतिघं रूपं सनिदर्शनमित्यपि। . स्वदेशे परस्योत्पत्तिप्रतिबन्धकारित्वाद् रूपं सप्रतिघमित्युच्यते। निदर्शनम्-चक्षुविज्ञानम्; तज्जनकत्वात्, सह तेन वर्त्तत इति सनिदर्शनम्। द्वितीयमप्युदाहरणमाह
प्रयत्नानन्तरज्ञातो यथा वा श्रावणो ध्वनिः॥१०३९॥ यथा हि-ध्वनिरेकोऽपि सन् प्रयत्नान्तरज्ञानफलकतया प्रयत्नानन्तरं ज्ञातं इत्युच्यते। श्रोत्रज्ञानफलत्वाच्च श्रावणः । श्रवणं हि श्रुतिः, श्रोत्रज्ञानमिति यावत् । तत्प्रतिभासितया तत्र भवः श्रावणः । यद्वा श्रवणेन गृह्यत इति श्रावणः ॥ १०३९ ॥
एवमतत्कार्यभेदेनैकस्मिन्नप्यनेका श्रुतिर्निवेश्यत इति दर्शितम्, इदानीमतत्कारणभेदेनापि क्वचित् श्रुतिर्निवेश्यत इति दर्शयति
अतत्कारणभेदेन क्वचिच्छब्दो निवेश्यते।
प्रयत्नोत्थो यथा शब्दो भ्रामरं वा यथा मधु॥१०४०॥ भ्रामरमिति। भ्रमरंकृतम्, क्षुद्रादिकृतान्मधुनो व्यावृत्तम्॥ १०४० ॥
एवमतत्कार्यकारणपदार्थभेदादैकस्मिन् वस्तुनि श्रुतिभेदो दर्शितः । इदानीं तत्कार्यकारणपदार्थव्यवच्छेदमात्रप्रतिपादनेच्छयाऽन्तरेणापि सामान्यं श्रुतेर्भेदनिवेशनं दर्शयन्नाह
तत्कार्यहेतुविश्रूषात् कचिच्छुतिरिहोच्यते।
अश्रावणं यथा रूपं विदयुद्वाऽयत्नजा यथा॥१०४१॥ [G.327] तौ-पूर्वोक्तौ, कार्यहेतू येषां ते तथोक्ताः । तेभ्यो विश्रेषः व्यावृत्तिः ।
का पुनरसौ श्रुतिः? इत्याह- अश्रावणमित्यादि। श्रोत्रज्ञानफलशब्दव्यवच्छेदेनाश्रावणं रूपमित्युच्यते। तथा प्रयत्नकारणघटादिपदार्थव्यवच्छेदेन विद्युदप्रयत्नजेत्यभिधीयते॥१०४१ ॥
एवमन्तरेणापि सामान्यादिकं वस्तुभूतं व्यावृत्तिकृतमेव शब्दानां भेदेन निवेशनमिति प्रतिपाद्य, पर्यायत्वप्रसङ्गाभावं दर्शयन्नाह
' इत्यादिना प्रभेदेन विभिन्नार्थनिबन्धनाः। . व्यावृत्तयः प्रकल्प्यन्ते तनिष्ठाः श्रुतयस्तथा॥१०४२॥
यथासङ्केतमेवातोऽसङ्कीर्णार्थाभिधायिनः । ... शब्दा विवेकतो वृत्ताः पर्याया न भवन्ति नः॥१०४३॥
आदिग्रहणेनावस्थाविशेषवाचका बालादिशब्दा नैरात्म्यादिशब्दा गृह्यन्ते। विभिन्नार्थनिबन्धना इति । विभिन्नतस्ततो व्यावृत्तोऽर्थो निबन्धनं यासां व्यावृत्तीनां तास्तथोक्ताः। तथेति व्यावृत्तिवत्। तन्निष्ठा इति व्यावृत्तार्थनिष्ठाः; प्रणालिकया तथाविधपदार्थाधिगतिहेतुत्वात्। श्रुतय इति शब्दाः ॥ १०४२-१०४३॥ ___स्यादेतत्-मा भूत् पर्यायत्वमेषाम्, अर्थभेदस्य परिकल्पित्वात्; सामान्यविशेषवाचित्वव्यवस्था तु विना सामान्यविशेषाभ्यां कथमेषां सिध्यतीति? अत आह
बह्वल्पविषयत्वेन तत्सङ्केतानुमानतः।
सामान्यभेदवाच्यत्वमप्येषां न विरुध्यते॥१०४४॥ १. ०ज्ञानो-पा०, गा०।