SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २८० तत्त्वसंग्रहे चक्षुर्विज्ञानजनकत्वं नाम सामान्यमस्ति । यतः सामान्यविशेषसमवाया अपि भवद्भिश्चक्षुविज्ञानजनका इष्यन्ते। तेषु न सामान्यसमवायोऽस्ति; नि:सामान्यत्वात् सामान्यस्य, समवायस्य च द्वितीयसमवायाभावात् ॥ १०३४॥ ननु च घटादिरेकार्यकारी कथमुच्यते, यावता तत्कार्यमुदकधारणादि तद्ग्राहकं च विज्ञानं स्वलक्षणभेदाद् भिद्यत एव? इत्यत आह घटादीनां च यत् कार्यं जलादेर्धारणादिकम्। . यच्च तद्विषयं ज्ञानं भिन्नं यद्यपि तदद्वयम्॥१०३५॥ एकप्रत्यवमर्शस्य हेतुत्वादेकमुच्यते। ज्ञानं तथापि तद्धेतुभावादर्था अभेदिनः ॥१०३६॥ यद्यपि स्वलक्षणभेदात् तत्कार्यं भिद्यते, तथापि ज्ञानाख्यं तावत् कार्यमेकार्थाध्यवसायिपरामर्शज्ञानहेतुतयैकमित्युच्यते, तस्य न ज्ञानस्य हेतुभावादर्था अपि मधूदकाद्याहरणादिलक्षणा घटादिव्यक्तिलक्षणाश्चाभेदिन इत्युच्यन्ते, तद्दर्शयति- २तथापि तद्धेतुभावादर्था अभेदिन इति। उच्यत इति प्रकृतं वचनपरिणामाद् बहुवचनान्तं सम्बध्यते। अपिशब्दो भिन्नक्रमः 'अर्थाः' इत्यनन्तरं सम्बध्यते। तेनैकार्थक्रियाकारित्वमुपपद्यत एव।। ___ननु चैवमनवस्था प्राप्नोति, तथा हि-योऽसौ प्रत्यवमर्शप्रत्ययस्तस्यापि स्वलक्षणभेदेन भिद्यमानत्वादेकत्वमसिद्धम्, ततश्च तस्याप्येकत्वसिद्धये परमेकाकारप्रत्यवमर्शकार्यमनुसरतोऽनवस्था स्यात्, ततश्चानवस्थितैककार्यतया न कृचिदेकश्रुतिनिवेशः सिध्येत् ? नैतदस्ति; न हि प्रत्यवमर्शप्रत्ययस्यैककार्यतयैकत्वमुच्यते, किं तर्हि ? एकार्थाध्यवसायितया, तेन नानवस्था भविष्यति; स्वत एव सर्वेषां प्रत्यवमर्शप्रत्ययानामेकार्थाध्यवसायित्वस्य सिद्धत्वात्। तेनायमर्थो भवति–एकाकारप्रत्यवमर्शहेतुत्वात् ज्ञानाख्यं कार्यमेकमित्युच्यते, तद्धेतुभावाच्चार्था अपि घटादय एकत्वव्यपदेशभाज इति ॥ १०३५-१०३६॥ [G.326] तेन विनापि सामान्यं वस्तुभूतम्, सामान्यवचना घटादयः सिध्यन्तीति निगमयन्नाह तत्र सामान्यवचना उक्ताः शब्दा घटादयः। विजातीयव्यवच्छिन्नप्रतिबिम्बैकहेतवः ॥१९३७॥ - एकस्मिन्नपि वस्तुन्यन्तरेणापि सामान्यविशेषसङ्कीर्णानेकशब्दप्रवृत्तिर्भवत्येवेति दर्शयन्नाह तथाऽनेकार्थकारित्वादेको नैक इवोच्यते। अतत्कार्यपरावृत्तिबाहुल्यपरिकल्पितः ॥१०३८॥ कश्चिदेकोऽपि सन् प्रकृत्यैव सामग्रयन्तरान्त:पातवशादनेकार्थक्रियाकारी भवति। तत्रान्तरेणापि वस्तुभूतसामान्यादिधर्मभेदमतत्कार्यपदार्थभेदबाहुल्यादनेकधर्मसमारोपादनेका श्रुतिर्निवेश्यते ॥ १०३८॥ अत्रोदाहरणमाह१. तस्य घटादेः कार्यमित्यर्थः। २. तथा-जै।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy