________________
शब्दार्थपरीक्षा
२७९ यथैवाविद्यमानस्य न भेदः पारमार्थिकः।
अभेदोऽपि तथैवेति तेन पर्यायता भवेत्॥१०२९॥ यथैव ह्यपोहस्य निःस्वभावत्वादविद्यमानरूपस्य परस्परतो भेदो [G.324] नास्तीत्युच्यते, तथैवाभेदोऽपीति तत् कथमभिन्नार्थाभावे पर्यायत्वप्रसञ्जनं क्रियते ॥१०२९ ॥ एतदेव स्पष्टीकुर्वन्नाह
अभेदो होकरूपत्वं नीरूपेषु च तत्कुतः। यदि नाम नीरूपेष्वेकरूपत्वं नास्ति, तथापि किमिति पर्यायता न भवेदिति चेत्? आह
एकत्वेऽर्थस्य पर्यायाः प्राप्नुवन्ति च वाचकाः॥१०३०॥ स्यादेतत्- यदि नाम नीरूपेष्वेकरूपत्वं भावतो नास्ति, तथापि काल्पनिकमस्ति, तेन पर्यायताप्रसञ्जनं युक्तमेव? इत्यत आह
रूपाभावेऽपि चैकत्वं कल्पनानिर्मितं यथा।
विभेदोऽपि तथैवेति कुतः.पर्यायता ततः॥१०३१॥ रूपाभावेऽपीति। स्वभावेऽपीत्यर्थः ॥ १०३१॥ यद्येवम्, पर्यायापर्यायव्यवस्था कथं शब्दानां प्रसिद्धा? इत्याह
भावतस्तु न पर्याया नापर्यायाश्च वाचकाः ।
न होकं बाह्यमेतेषामनेकं चेति वर्णितम्॥१०३२॥ यदि हि परमार्थतो भिन्नमभिन्नं वा किञ्चिद्वाच्यं वस्तु शब्दानां स्यात्, तदा पर्यायता, अपर्यायता वा भवेत्; यावता "स्वलक्षणं जाति: तद्योगो ज़ातिमांस्तथा" (तत्त्व० ८७०) इत्यादिना वर्णितं तथैषां न किञ्चिद्वाच्यमस्तीति ॥१०३२॥ कथं सा तर्हि पर्यायादिव्यवस्था? इत्याह
किन्त्वनेकोऽपि यद्येककार्यकारी च ईक्ष्यते।
तत्रैकधर्मारोपेण श्रुतिरेका निवेश्यते॥१०३३॥ तत्रान्तरेणाप्ति सामान्य सामान्यशब्दत्वव्यवस्थाया इदं निबन्धनम्, यद्बहूनामेकार्थक्रियाकारित्वम्। प्रकृत्यैव हि केचिद्भावा बहवोऽप्येकार्थक्रियाकारिणो भवन्ति। तेषामेकार्थक्रियासामर्थ्यप्रतिपादनाय व्यवहर्तृभिर्लाघवार्थमेकरूपाध्यारोपैणैका श्रुतिर्निवेश्यते। यथा बहुषु रूपादिषु मधूदकाद्याहरणलक्षणैकार्थक्रियासमर्थेषु 'घटः' इत्येषा श्रुतिर्निवेश्यते॥१०३३ ॥ [G.325) कथं पुनरेकेनानुगामिना विना बहुष्वेका श्रुतियुज्यते? इत्याह
लोचनादौ यथा रूपविज्ञानैकफले क्वचित्।
कश्चिद्यदि श्रुतिं कुर्याद् विनैकेनानुगामिना ॥१०३४॥ इच्छामात्रप्रतिबद्धो हि शब्दानामर्थेषु नियोगः, तथा हि- चक्षूरूपालोकमनस्कारेषु रूपविज्ञानैकफलेषु यदि कश्चिदिच्छावशाद् विनाप्येकेनानुगामिना सामान्ये "छ', 'ठ'३ इत्यादिकां श्रुतिं निवेशयेत्, तत् किं तस्य कश्चित् प्रतिरोद्धा भवेत् ! न हि तेषु लोचनादिष्वेकं १. पर्यायत्वसञ्जनं- जै०।
२-२. ०ऽपर्यायता पर्यायता-पा० गा० । ३-३. ००००-पा०, गा०।