________________
२७८
तत्त्वसंग्रहे भवेत् । यथोक्तम्- "ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत्" ( )। तस्मात् सिद्धसाध्यतादोषो न भवति । न हि भवद्भिर्बुद्ध्याकारो गोत्वाख्यं सामान्यमवस्तुरूपमिष्टम्, किं तर्हि ? बाह्यशाबलेयादिगतमेकमनुगामि पारमार्थिकं गोत्वादिसामान्यमुपकल्पितम्, अतो न सिद्धसाध्यतेति भावः । यच्चोक्तम्- "निषेधमात्ररूपश्च" (तत्त्व० ९१८) इत्यादि; तस्यानभ्युपगतत्वादेव न दोषः ॥ १०२४॥ [G.323] यच्चेदमुक्तम्- "तस्यां चाश्वादिबुद्धीनाम्" (तत्त्व० ९१९) इत्यादि, तत्राह
यद्यप्यव्यतिरिक्तोऽयमाकारो बुद्धिरूपतः।
तथापि बाह्यरूपत्वं भ्रान्तैस्तस्यावसीयते॥१०२५॥ सुबोधम्॥ १०२५ ॥ यच्चोक्तम्- "शब्दार्थोऽर्थानपेक्षः" (तत्त्व० ९२०) इति, तत्राह
तस्य नार्थानपेक्षत्वं पारम्पर्यात् तदागतेः। ... यत्र हि पारम्पर्याद्वस्तुनि प्रतिबन्धोऽस्ति, तस्य भ्रान्तस्यापि सतो विकल्पस्य मणिप्रभायां मणिबुद्धिवन्न बाह्यार्थानपेक्षत्वमस्ति । अतोऽसिद्ध बाह्यार्थानपेक्षत्वम् । यदुक्तम्- "वस्तुरूपा च सा बुद्धिः'' (तत्त्व० ९२१) इत्यादि, तत्राह
तेनात्मना च वस्तुत्वं नैवास्तीत्युपपादितम्॥१०२६॥ यद्यपि वस्तुरूपा सा बुद्धिः; तथापि तस्यास्तेन बाह्यात्मना बुद्ध्यन्तरात्मना च वस्तुत्वं नास्तीत्युपपादितम् “न तदात्मा परात्मा" (तत्त्व० १०१३) इत्यादिना । तेन 'बुद्धेर्बुद्ध्यन्तरापोहो न गम्यते' इत्यसिद्धम्; सामर्थ्येन गम्यमानत्वादिति भावः ॥ १०२६॥ "असत्यपि च बाह्यार्थे" (तत्त्व० ९२२) इत्यत्राह
प्रतिबिम्बात्मकोऽपोहः पदादप्युपजायते।
प्रतिभाख्यो झटित्येव पदार्थोऽप्ययमेव नः॥१०२७॥ यथैव हि प्रतिबिम्बात्मकप्रतिभाख्योऽपोहो बाह्यार्थोऽस्माभिरुपवर्णितः, तथैव पदार्थोऽपि । यस्मात् पदादपि प्रतिबिम्बात्मकोऽपोह उत्पद्यत एव, तेनास्माकमयमेव प्रतिबिम्बात्मकोऽपोहः पदार्थोऽपि मतः, न केवलं बाह्यार्थः- इत्यपिशब्दः । तेन विप्रतिपत्तेरभावान्नोपालम्भो युक्त इति भावः ॥ १०२७॥ "बुद्धयन्तराद्व्यवच्छेदो न च बुद्धेः प्रतीयते" (तत्त्व० ९२३) इत्यत्राह
स्वरूपोत्पादमात्राद्धि' नान्यमंशं बिभर्ति सा।
बुद्ध्यन्तराद् व्यवच्छेदस्तेन बुद्धेः प्रतीयते॥१०२८॥ . यत एव हि स्वरूपोत्पादभात्रादन्यमंशं सा बुद्धिर्न बिभर्ति, तत एव स्वभावव्यवस्थितत्वाद् बुद्धेर्बुद्ध्यन्तराद् व्यवच्छेदः प्रतीयते, अन्यथा ह्यन्यस्य रूपं बिभ्रती कथं ततो व्यवच्छिन्ना प्रतीयेत! तेनेति । स्वव्यतिरिक्तपदार्थस्वरूपानवधारणेन । १०२८॥
"भिन्नसामान्यवचनाः" (तत्त्व० ९२४) इत्यादावाह१. स्वरूपोपाद:- जै०।