________________
शब्दार्थपरीक्षा
२७७ स्वार्थाभिधानमन्यस्य विनिवृत्तिं च वस्तुनः॥१०२०॥ यदि साक्षादेकस्य शब्दस्य विधिनिषेधज्ञानलक्षणं फलद्वयं युगपदभिप्रेतं भवेत्, तदा स्याद्विरोधः । यदा तु दिवाभोजनवाक्यवदेकं साक्षात्, अपरं सामर्थ्यलभ्यं फलमितीष्टम्, तदा न विरोधः । यच्चोक्तम्- "प्रागगौरिति विज्ञानम्" (तत्त्व० ९१३) इत्यादि, तदपि निरस्तम्; अनभ्युपगमात्। न ह्यगोप्रतिषेधमाभिमुख्येन गोशब्दः करोतीत्यभ्युपगतमस्माभिः, किं तर्हि ? सामर्थ्यादिति प्रतिपादितम्॥१०२०॥ यदुक्तम्- "अगोनिवृत्तिः सामान्यम्" (तत्त्व ९१४) इत्यादि, तत्राह
तादृशः प्रतिभासश्च सामान्यं गोत्वमिष्यते।
सर्वत्र शाबलेयादौ समानत्वावसायतः॥१०२१॥ तादृश इति बाह्यरूपतयाऽध्यस्तो बुद्ध्यारूढः । अत्रोपपत्तिमाह-सर्वक्रेत्यादि। सर्वत्र शाबलेयादौ गौौरिति समरूपतयाऽवसयात् तेषां तत् सामान्यमित्युच्यते ॥ १०२१ ॥
बाह्यवस्तुरूपत्वमपि तस्य भ्रान्तप्रतिपत्तृवशाद् व्यवह्रियते, न परमार्थत सति दर्शयति
वस्त्वित्यध्यवसायाच्च वस्तित्वत्यपि तदुच्यते।
___झटित्येव हि तज्झानं भ्रान्तं जातं स्वबीजतः॥१०२२॥ [G.322] ननु यदि कदाचिन्मुख्यवस्तुभूतं सामान्यं बाह्यवस्त्वाश्रितमुपलब्धं भवेत्, तदा साधर्म्यदर्शनात् तत्र सामान्यं भ्रान्तिर्भवेत्, यावता मुख्यार्थासम्भवे सैव भवतां सामान्यभ्रान्तिरनुपपन्नेत्याशङ्कयाह- झटित्येव हीत्यादि। झटिति= २धर्म्यदर्शनाद्यपेक्ष्य द्विचन्द्रादिज्ञानादिवदन्तरुपप्लवादेतज्जातं ज्ञानम्। न हि सर्वा भ्रान्तयः साधर्म्यदर्शनादेव भवन्ति, किं तर्हि ? अन्तरुपप्लवादपीत्यदोषः ॥ १०२२ ।। तेन सिद्धसाध्यतादोषो न भवतीति दर्शयन्नाह
. स एव च तदाकारशब्दार्थोऽपोह उच्यते। .. सामान्य वस्तुरूपं च तथा भ्रान्त्याऽवसायतः॥१०२३॥
स एव बुद्ध्याकारो बाह्यतयाऽध्यस्तः 'अपोह इति शब्दार्थः' इति, बाह्यवस्तुभूतं सामान्यमिति चोच्यते। अत्र कारणमाह- तथा भ्रान्त्यावसायतइति। तथेति सामान्यरूपत्वेन वस्तुरूपत्वेन चावसायात्। शब्दार्थत्वापोहरूपत्वयोः प्रागेव कारणमुक्तम्. "बाह्यार्थाध्यवसायिन्या बुद्धेः शब्दात् समुद्भावात्" । (तत्त्व० १११०)
"प्रतिभासान्तराद्भेदात्" (तत्त्व ११०६) इत्यादिना ॥ १०२३ ॥ कस्मात् पुनः परमार्थतः सामान्यं तन्न भवति? इत्याह
. सामान्यवस्तुरूपत्वं न युक्तं त्वस्य भाविकम्।
बुद्धेरनन्यरूपं हि यायादर्थान्तरं कथम्॥१०२४॥ परमार्थतो हि बुद्धेरव्यतिरिक्तोऽसौ, तत्कथमर्थान्तरं व्रजेत्; येनार्थानां तत् सामान्य १. यदि- पा०, गा०॥
. २. सामान्यदर्शना-पा०, गा० । ३. पा०, गा० पुस्तकयोनास्ति।