________________
२७६
तत्त्वसंग्रहे !
त्मके स्वार्थेऽर्थान्तरव्यवच्छेदं प्रतिबिम्बान्तराट्यावृत्तं प्रतिबिम्बात्मकमपोहं कुर्वती जनयन्ती श्रुतिरभिधत्त इत्युच्यते इत्येतदाचार्गीयं वचनमविरोधि ॥ १०१५ ॥ बाह्यार्थेत्यादिनैतदेवाचार्यायं वचनं व्याचष्टे
बाह्यार्थाध्यवसायेन प्रवृत्तं प्रतिबिम्बकम्। उत्पादयति येनेयं . तेनाहेत्यपदिश्यते॥१०१६॥ न तु स्वलक्षणात्मानं स्पृशत्येषा विभेदिनम्।
तन्मात्रांशातिरेकेण नास्त्यस्या अभिधाक्रिया॥१०१७॥ - अयमाचार्यस्याभिप्रायः- न शब्दस्य बाह्यार्थाध्यवसायिविकल्पप्रतिबिम्बोत्पादव्यतिरेकेणान्यो बाह्याभिधानव्यापारः सम्भवति; निर्व्यापारत्वात् सर्वधर्माणाम्। अतो बाह्यार्थाध्यवसायेन प्रवृत्तविकल्पप्रतिबिम्बं जनयन्ती श्रुतिः स्वार्थमभिधत्त इत्युच्यत इति। नतु विभेदिनं सजातीयविजातीयव्यावृत्तं स्वलक्षणमेषा स्पृशति; अकिञ्चित्करत्वात्। तन्मात्रां शातिरेकेणेति। तथाविधप्रतिबिम्बजनकत्वव्यतिरेकेण नापरा श्रुतेरभिधाक्रियाऽस्तीत्यर्थः ॥१०१६-१०१७॥
एवमपोहस्य स्वरूपमभिधाय साम्प्रतं.परोक्तानि दूषणान्युद्धर्तुमारभते । तत्र यदुक्तम्"यदि गौरिति शब्दश्च " (तत्त्व० ९११) इत्यादि, तत्राह-
. तस्य च प्रतिबिम्बस्य गतावेवावगम्यते।
सामर्थ्यादन्यविश्रूषो नास्यान्यात्मकता यतः॥१०१८॥ गोबुद्धिमेव हि शब्दो जनयति, अन्यविशेषस्तु सामर्थ्याद् गम्यते, न तु शब्दात्; तस्य गोप्रतिबिम्बस्य प्रतिभासान्तरात्मरहितत्वात्, अन्यथा नियतरूपस्य तस्य प्रतिपत्तिरेव [G.321] न स्यात्। तेनापरो ध्वनिर्गोबुद्धेर्जनको न मृग्यते। तेनैव गोशब्देन गोबुद्धेर्जन्यमानत्वात् ॥१०१८॥ "न तु ज्ञानफलाः शब्दाः" (तत्त्व० ९१२) इत्यादावाह
दिवाभोज़नवाक्यादेरिवास्यापि फलद्वयम्। साक्षात् सामर्थ्यतो यस्मानान्वयोऽव्यतिरेकवान्॥१०१९॥
यथा हि- 'दिवा न भुते पीनो देवदत्तः' इत्यस्य वाक्यस्य साक्षाद्दिवाभोजनप्रतिषेधः स्वार्थाभिधानम्, गम्यस्तु रात्रिभोजनविधिः, न साक्षात्; तद्वद् गौरित्यादेरन्वयप्रतिपादकस्य शब्दस्यान्वयज्ञानं साक्षात् फलम्। व्यतिरेकगतिस्तु सामर्थ्यात् । अत्र कारणमाहयस्मादित्यादि। यस्मादन्वयो विधेरव्यतिरेकवान्नास्ति, किं तर्हि ? विजातीयव्यवच्छेदाव्यभिचार्येव। न हि विजातीयादव्यावृत्तस्य कस्यचित् सम्भवोऽस्ति, तेनैकस्य शब्दस्य फलद्वयमविरुद्धमेव ॥ १०१९ ॥ कस्मात्? इत्याह
नाभिमुख्येन कुरुते यस्माच्छब्द इदं द्वयम्। १. वचनमाचष्टे- पा०, गा०/ २. गतावेवागम्यते- पा०, गा०।