________________
शब्दार्थपरीक्षा
२७५ [G.319] तत्=अध्यवसितबहिर्भावत्वलक्षणम्, रूपम् स्वभावो यस्य तत्तथोक्तम् । तद्रूपं च तत्प्रतिबिम्बं चेति समासः । तस्य तद्रूप्रतिबिम्बस्य धियः सम्बन्धिनः शब्दाजन्मन्युत्पादे सति स वाच्यवाचकभावलक्षणो' निरूप्यमाणः कार्यकारणभावात्मक एव जातः । तथा हि-शब्दप्रतिबिम्बस्य जनकत्वाद् वाचक उच्यते, तच्च प्रतिबिम्बं शब्देन जन्यमानत्वाद् वाच्यम्। तेन यदुक्तम्- "निषेधमात्रं नैवेह शाब्दे ज्ञानेऽवभासते" (तत्त्व० ९०९) इति, तदसङ्गतम्; निषेधमात्रस्य सब्दार्थत्वाभ्युपगमादिति भावः ॥ १०११॥
एवं तावत् प्रतिबिम्बलक्षणोऽपोहः साक्षाच्छब्दैरुपजन्यमानत्वान् मुख्यः शब्दार्थ इति दर्शितम्। शेषयोरप्यपोहयोर्गौणं शब्दार्थत्वमुपवर्ण्यमानमविरुद्धमेवेति दर्शयन्नाह
साक्षादाकार एतस्मिन्नेवं च प्रतिपादिते।
प्रसज्यप्रतिषेधोऽपि सामर्थ्येन प्रतीयते॥१०१२॥ एवं चेति जन्यत्वेन ॥.१०१२॥ कस्मात् पुनः सामर्थ्येन प्रसज्यप्रतिषेधः प्रतीयते? इति दर्शयन्नाह
न तदात्मा परात्मेति सम्बन्धे सति वस्तुभिः। व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः॥१०१३॥ तेनायमपि शब्दस्य स्वार्थ इत्युपचर्यते।
न तु साक्षादयं शाब्दो द्विविधोऽपोह उच्यते॥१०१४॥ तस्य गवादिप्रतिबिम्बस्यात्मा यः परस्याश्वादिप्रतिबिम्बस्यात्मा स्वभावो न भवतीति कृत्वा । एवं प्रसज्यलक्षणापोहस्य नान्तरीकतया प्रतीतेगौणं शब्दार्थत्वं प्रतिपाद्य स्वलक्षणस्यापि प्रतिपादयन्नाह-सम्बन्धे सतीत्यादि । तत्र सम्बन्ध: शब्दस्य वस्तुनि पारम्पर्येण कार्यकारणलक्षणः प्रतिबन्धः । तथा हि'- प्रथमं यथास्थितवस्त्वनुभवः, ततो विवक्षा, ततस्ताल्वादिपरिस्पन्दः, ततः शब्द:-इत्येवं परम्परया यदा शब्दस्य वस्तुर्भिर्बाहयैरगन्यादिभिः सम्बन्धः स्यात्, तदा तस्मिन् सम्बन्धे सति विजातीयव्यावृत्तस्यापि वस्तुनोऽर्थापत्तितोऽधिगमो भवति। अतो द्विविधोऽपि प्रसज्यप्रतिषेधोऽन्यव्यावृत्तवस्त्वात्मा चापोहः शब्दार्थ इत्युपचर्यते। अयमिति स्वलक्षणात्मा। अपिशब्दात् प्रसज्यात्मा च ।। १०१३-१०१४ ॥ [G.320] तेन आचार्यदिङ्नागस्योपरि यदुद्द्योतकरेणोक्तम्- "यदि शब्दस्यापोहोऽभिधेयोऽर्थः, तदाभिधेयार्थव्यतिरेकेंणांस्य स्वार्थो वक्तव्यः । अथ स एवास्य स्वार्थः, तथापि व्याहतम्, एतदन्यशब्दार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इत्युच्यत इति, अस्य हि वाक्यस्यायमर्थस्तदानीं भवति-अभिदधानाऽभिधत्ते" ( . ) इति। तदेतद् वाक्यार्थापरिज्ञानादुक्तमिति दर्शयन्ना चार्यायवाक्याविरोधं प्रतिपादयति
...अर्थान्तरव्यवच्छेदं कुर्वती श्रुतिरुच्यते।
अभिधत्त इति स्वार्थमित्येतदविरोधि तत्॥१०१५॥ स्वलक्षणमपि हि शब्दस्योपचारात् स्वार्थ इति प्रतिपादितम्, अतस्तस्मिन् स्वलक्षणा१. वाच्यवाचकलक्षणो- पा०, गा०। ..
२-२. 'प्रतिभासेऽवगम्यते' इति तत्रस्थ: पाठः। ३-३. पा०, गा० पुस्तकयो स्ति।
४. पा०, गा० पुस्तकयो स्ति।