SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २७४ तत्त्वसंग्रहे उपचारात्तु त्रिभिः कारणैः । १. कारणे कार्यधारोपाद्वा, यदाह- अन्यव्यावृत्तवस्तुनः प्राप्तिहेतुतयेति । २. कार्ये वा कारणधर्मोपचारात्, तद्दर्शयति-अशिष्टवस्तुद्वारा गतेरपीति। अशिष्टम् अन्यासम्बद्धम्, अन्यतो व्यावृत्तमिति यावत् । तदेव वस्तुद्वारमुपायः, तदनुभवबलेन तथाविधविकल्पोत्पत्तेः । ३. विजातीयापोढपदार्थेन सहैक्येन भ्रान्तैः प्रतिपतृभिरध्यवसितत्वाच्चेति चतुर्थं कारणम्, तदर्शयति- . विजातीयपरावृत्तं तत्फलं यत्स्वलक्षणम्। तस्मिन्नध्यवसायाद्वा तादात्म्येनास्य विप्लुतैः॥१००७॥ तत्रान्योऽपोह' इत्येषा संज्ञोक्ता सनिबन्धना। ४. अस्येति विकल्पबुद्ध्यारूढस्यार्थप्रतिबिम्बस्य। सनिबन्धति। सह निबन्धने प्रतिभासान्तरानेदादिनोक्तेन चतुर्विधेन वर्त्तत इति सनिबन्धना ॥ १००६-१००७॥ अर्थात्मनोऽपोहस्य स्वरूपं दर्शयन्नाह स्वलक्षणेऽपि तद्धेतावन्यविश्लेषभावतः॥१००८॥ 'अन्यापोहः' इत्येषा संज्ञोक्ता सनिबन्धनेति प्रकृतेन सम्बन्धः । तत्र निबन्धनमाहअन्यविश्रेषभावत इति। अन्यस्मात् विजातीयाद्, विशेषः व्यावृत्तिः, तस्य भावात् विजातीयविशेषस्य विद्यमानत्वादिति यावत् । एतेन मुख्यत एव स्वलक्षणेऽन्यापोहव्यपदेश इत्युक्तं भवति ॥ १००८॥ . प्रसज्यप्रतिषेधलक्षणस्यापोहस्य स्वरूपं दर्शयति प्रसज्यप्रतिषेधश्च गौरगौर्न भवत्ययम्। अतिविस्पष्ट एवायमन्यापोहोऽवगम्यते॥१००९॥ तदेवं त्रिविधमपोहं प्रतिपाद्य प्रकृते शब्दार्थत्वे योजयन्नाह तत्रायं प्रथमः शब्दैरपोहः प्रतिपाद्यते। बाह्यार्थाध्यवसायिन्या बुद्धेः शब्दात् सदुद्भवात्॥१०१०॥ प्रथमइति यथोक्तार्थप्रतिबिम्बात्मा। तत्र कारणमाह- बाह्यार्थाध्यवसायिन्या इत्यादि। यदेव हि शाब्दे ज्ञाने प्रतिभासते स एव शब्दार्थो युक्तः । न चात्र प्रसज्यप्रतिषेधाध्यवसायोऽस्ति, न चापीन्द्रियज्ञानवत् स्वलक्षणप्रतिभासः, किं तर्हि ? बाह्यार्थाध्यवसायिनी केवलं शाब्दी बुद्धिरुपजायते। तेन तदेवार्थप्रतिबिम्बकं शाब्दे ज्ञाने साक्षात् तदात्मतया प्रतिभासनाच्छब्दार्थों युक्तः, नान्य इति भावः ॥ १०१० ॥ यश्चापि शब्दस्यार्थेन सह वाच्यवाचकभावलक्षणः सम्बन्धः प्रसिद्धः, नासौ कार्यकारणभावादन्योऽवतिष्ठते, अपि तु कार्यकारणभावात्मक एवेति दर्शयति तद्रूपप्रतिबिम्बस्य धियः शब्दाच्च जन्मनि। वाच्यवाचकभावोऽयं जातो हेतुफलात्मकः॥१०११॥ १. पा०, गा० पुस्तकयो स्ति। २. कार्यधर्मारोपाद्वा-पा०, गा०। ३. गा० सम्पादक: 'तदाह'- इत् पाठमभीप्सति। ४. ०पोहपदार्थेन-पा०, गा० । ५. तत्रान्यापोह- पा०, गा०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy