________________
शब्दार्थपरीक्षा
२७३ तस्माद्येष्वेव शब्देषु नज्योगस्तेषु केवलम्।
भवेदन्यनिवृत्त्यंशः स्वात्मैवान्यत्र गम्यते॥१००१॥ येष्वेव शब्देषु नज्योग इति। अभक्ष्यो ग्रामसूकरः' इत्यादिषु। स्वात्मैवेति । स्वरूपमेव विधिलक्षणम्। अन्यत्रेति नरहिते॥१०००-१००१॥
उत्तरपक्षः एवं यथाप्रधानं परमतमाशङ्कय, अन्यापोहापरिज्ञानादित्यादिना समाधानमारभते
अन्यापोहापरिज्ञानादेवमेते कुदृष्टयः। स्वयं नष्टा' दुरात्मानो नाशयन्ति परानपि। १००२॥ तथा हि द्विविधोऽपोहः पर्युदासनिषेधतः।
द्विविधः पर्युदासोऽपि बुद्ध्यात्मात्मभेदतः॥१००३॥ पर्युदासनिषेधत इति पर्युदासात्, निषेधाच्च। पर्युदासलक्षणः, प्रसज्यप्रतिषेधश्चेति [G.317] यावत्। बुद्ध्यात्मार्थात्मभेदत इति। बुद्ध्यात्मभेदात्, अर्थात्मभेदादित्यर्थः । तत्र बुद्ध्यात्मा-बुद्धिप्रतिभासोऽर्थेष्वनुगतैकरूपत्वेनाध्यवसितः; अर्थात्मा अर्थस्वभावः, विजातीयव्यावृत्तमर्थस्वलक्षणमित्यर्थः । अनयोंर्भेदः विभाग इति समासः ॥ १००२-१००३ ॥ तत्र बुद्ध्यात्मनः स्वयरूपं दर्शयन्नाह
एकप्रत्यवमर्शस्य य उक्ता हेतवः पुरा। अभयादिसमा अर्थाः प्रकृत्यैवान्यभेदिनः ॥१००४॥ तानुपाश्रित्य यज्ज्ञाने भात्यर्थप्रतिबिम्बकम्।
कल्पकेऽर्थात्मताऽभावेऽप्यर्था इत्येवं निश्चितम्॥१००५॥ पुरेति। पूर्व सामान्यपरीक्षायाम् "यथा धात्र्यभयादीनाम्" (तत्त्व० ७२२) इत्यादिनोक्ताः । तत्रोक्तम्-यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यमेकं ज्वरादिशमनलक्षणं कार्यं कुर्वन्ति, तथा शाबेलयादयोऽप्यर्थाः सत्यपि भेदे प्रकृत्यैकाकारप्रत्यवमर्शस्य हेतवो भविष्यन्त्यन्तरेणापि वस्तुभूतं सामान्यमिति। अभयादिसमाइति। हरीतक्यादितुल्या: एकार्थकारितया साम्यम्। तानुपाश्रित्येति । तानभयादिसमानार्थानाश्रित्य हेतूकृत्य तदनुभवबलेन यदुत्पन्नं विकल्पकं ज्ञानं तत्र यंदाकारतयार्थप्रतिबिम्बकमर्थाभासो भाति तादात्म्येन, तत्र 'अन्यापोहः' इत्येषा संज्ञोक्तेति सम्बन्धः । कल्पक इति। विकल्पके, सविकल्प इति यावत्। एतच्च ज्ञान इत्यनेन समानाधिकरणम्। अर्थात्मताऽभावेऽपति। बाह्यार्थात्मताय अभावेऽपि। निश्चितमिति अध्यवसितम्॥ १००४-१००५॥ अथ कथं तस्यापोह इत्येष व्यपदेशः? इत्याह
प्रतिभासान्तराद् भेदादन्यव्यावृत्तवस्तुनः ।
प्राप्तिहेतुतयाऽश्रिष्टवस्तुद्वारा गतेरपि॥१००६॥ चतुर्भिनिमित्तैरपोह इति तस्याख्या। विकल्पान्तरारोपितप्रतिभासान्तराद् भेदेन स्वर, प्रतिभासनान्मुख्यतः; अपोह्यत इत्यपोहः, अन्यस्मादपोहोऽन्यापोह इति व्युत्पत्तेः । [G.3181 १. तुष्टा-पा०,गा०।