SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २७२ तत्त्वसंग्रहे __ इतश्चायुक्तोऽपोहः; विकल्पानुपपत्तेः। तथा हि-योऽयमगोरपोहो गवि, स किं गोव्यतिरिक्तः? आहोस्विदव्यतिरिक्तः? यदि व्यतिरिक्तः१, स किमाश्रितः? अथानाश्रितः? यद्याश्रितः, तदाऽऽश्रितत्वाद् गुणः प्राप्तः, ततश्च गोशब्देन गुण एवाभिधीयते नागौरिति गौस्तिष्ठति,गौर्गच्छतीति सामानाधिकरण्यं न प्राप्नोति। अथानाश्रितः, तदा केनार्थेनागोरपोह इति षष्ठी स्यात् ? अथाव्यतिरिक्तः, तदा गौरेवासाविति न किञ्चित् कृतं भवति ॥ ९८८-९९३ ॥ प्रतिभावमपोहोऽयमेकोऽनेकोऽपि वा भवेत्। योकोऽनेकगोयुक्तो गोत्वमेव भवेदसौ॥९९४॥ अनेकत्वेऽपि चानन्त्यं पिण्डवत् सम्प्रयुज्यते। तेन भेदवदेवास्य वाच्यता नोपपद्यते॥९१५॥ अयं चापोहः प्रतिवस्त्वेकः, अनेकोवेति वक्तव्यम्। यद्येकः? तदाऽनेकगोद्रव्यसम्बन्धी गोत्वमेवासौ भवेत् । अथानेकः? ततः पिण्डवदानन्त्यादाख्यानानुपपत्तेरवाच्य एव स्यात्॥ ९९४-९९५॥ अन्यापोहश्च किं वाच्यः ? किं वाऽवाच्योऽयमिष्यते ? वाच्योऽपि विधिरूपेण यदि वाऽन्यनिषेधतः ?॥९९६ ॥ विध्यात्मनाऽस्य वाच्यत्वे त्याज्यमेकान्तदर्शनम्। सर्वत्रान्यनिरासोऽयं शब्दार्थ इति वर्णितम्॥९९७॥ अनापोहव्युदासेन यद्यपोहोऽभिधीयते। तत्र तत्रैवमिच्छायामनवस्था . भवेत् ततः ॥९९८॥ अथाप्यवाच्य एवायमन्यापोहस्त्वयेष्यते। तेनान्यापोहकृच्छशब्द इति बाध्येत ते वचः॥९९९ ॥ [G.316] किञ्चेदं तावत् प्रष्टव्यो भवति भवान्- किमपोहो वाच्यः? अथावाच्य इति? वाच्यत्वे विधिरूपेण वा वाच्यः स्यात्, अन्यव्यावृत्त्या वा? तत्र यदि विधिरूपेण, तदा नैकान्तिकः शब्दार्थः-अन्यापोहः शब्दार्थ इति। अथान्यव्यावृत्त्येति पक्षः? तदा तस्याप्यन्यव्यवच्छेदस्यापरेणान्यव्यवच्छेदरूपेणाभिधानम्, तस्याप्यपरेणेत्यव्यवस्था स्यात्। अथावाच्यः? तदाऽन्यशब्दार्थापोहं शब्दः करोतीति व्याहन्येत ॥ ९९६-९९९ ॥ एतत्सर्वमुद्द्योतकरेणोक्तमुपन्यस्तम् । यत्राचार्यदिङ्नागेनोक्तम्- "सर्वत्राभेदादाश्रयस्यानुच्छेदात् कृत्स्नस्यार्थपरिसमाप्तेश्च यथाक्रमं जातिधर्मा एकत्वप्रत्येकपरिसमाप्तिलक्षणा अपोह एवावतिष्ठन्ते, तस्माद् गुणोत्कर्षादप्यर्थान्तरापोह एव शब्दार्थः साधुः" ( . ) इति। एतदाशङ्कय कुमारिल उपसंहरन्नाह अपि चैकत्वनित्यत्वप्रत्येकसमवायिताः। निरुपाख्येष्वपोहेषु कुर्वतोस्तत्र कः पटः ॥१०००॥ १-१. यद्व्यतिरिक्त:-पा०, गा। २. नोपयुज्यते- पा०, गान ३. अथापोह०- पा०, गा० । ४. एवायं यद्यपोह०- पा०, गा० । ५. ०समवायिन:- पा०, गा०। ६-६. कुर्वतस्तत्र क: पर:- पा०, गा० ।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy