________________
२७१
शब्दार्थपरीक्षा नागौरिति च योऽपोहो गोशब्दस्यार्थ उच्यते। स किं भावोऽथ वाऽभावो भावो गौर्वाऽथ वाऽप्यगौः॥९८५ । गौश्चेन्नास्ति विवादोऽयमर्थस्तु विधिलक्षणः।
अगौ\शब्दवाच्यश्चेद् अतिशब्दार्थकौशलम् ॥९८६॥ यश्चायमगोऽपोहो गौर्न भवतीति गोशब्दस्यार्थः, स किं भावः? अथाभावः? यदि भावः, स किं गौः अथाऽगौरिति? यदि गौः, नास्ति-विवादः । अथागौः, गोशब्दस्यागौरर्थ इत्यतिशब्दार्थकौशलम्। अथाभावः, तन्न युक्तम्; प्रैषसम्प्रतिपत्त्योरविषयत्वात्। न हि शब्दश्रवणादभावे प्रैषः सम्प्रतिपत्तिश्च भवेत् । तदेतद् दर्शयति
____ अभावोऽपि न युक्तोऽयं प्रैषादीनामसम्भवात्।
न हि गोशब्दतः कश्चिदभावं प्रतिपद्यते॥९८७॥ प्रेषणं प्रैषः-प्रतिपादकेन श्रोतुरर्थे विनियोगः, सोऽयं प्रतिपादकधर्मः । सम्प्रतिपत्तिः= श्रोतृधर्मः। आदिशब्देन भावधर्माः सर्वे वाहदोहादयो गृह्यन्ते। अपि च शब्दार्थः प्रतीत्या प्रतीयते, न च गोशब्दादभावं कश्चित् प्रतिपद्यते ॥ ९८५-९८७॥
किञ्च-क्रियारूपत्वादपाहस्य विषयो वक्तव्यः, तत्रागौर्न भवतीत्ययमपोहः किं गोविषयः? अथागोविषयः? यदि गौर्विषयः, कथं गोर्गव्येवाभावः! अथागौर्विषयः, कथमन्यविषयादपोहादन्यत्र प्रतिपत्तिः, न हि खदिरे च्छिद्यमाने पलाशे छिदा भवति! अथागोर्गवि प्रतिषेधो गौरगौर्न भवतीति, केनागोत्वं प्रसक्तं यत् प्रतिषिध्यत इति! तदत्र प्रथमौ विकल्पावत्यसम्बद्धाविति मत्वा तृतीयमेव दर्शन्नाह
नागौौरिति शब्दार्थः कस्माद् 'वापोह इष्यते। केन , ह्यगोत्वमासक्तं गौर्येनैतदपोह्यते॥९८८॥ अगौरपोहो यश्चायं गवि शब्दार्थ उच्यते। सं किं गोर्व्यतिरिक्तोऽथाऽव्यतिरिक्तोऽभ्युपेयते ॥९८९॥ विभिन्नोऽप्याश्रितोऽयं स्यादथ वा स्यादनाश्रितः। आश्रितत्वे गुण:. प्राप्तो न द्रव्यवचनं ततः॥९९०॥
अतो गौरिति शब्देन गुणमात्राभिधानतः। ... सामानाधिकरण्यं स्यान्न गौर्गच्छति तिष्ठति॥९९१॥
अथानाश्रित एवायं यद्यर्थस्तस्य को भवेत्। येनागो: प्रतिषेधाय गौरिति व्यपदिश्यते॥९९२॥ अथ 'वाऽव्यतिरिक्तोऽयमन्यापोहस्त्वयेष्यते।
गौरेवायमतः प्राप्तः किमुक्तमधिकं ततः॥९९३॥ |G.315] वाशब्दः समुच्चये। कस्माच्च भवता गौरित्येतस्य नागौरित्येषोऽपोहलक्षणः शब्दार्थ उच्यत इति वाक्यार्थः । कस्मात् पुनर्न वक्तव्य: ? इत्याह-केनेत्यादि। १. चापोह-पा०,गा०। २. ०वाऽव्यतिरिक्त उपेयते- पा०, गा०। ३. ०श्रितो वा- पा०, गा०॥ ४. येनासौ-पा०, गा०। ५. चा०-पा०, गा०। ६. चशब्द:-पा०, गा०। ७. वक्तव्या-गा०।