________________
२७०
तत्त्वसंग्रहे ये त्वाः- "विकल्पप्रतिबिम्बकमेव सर्वशब्दानामर्थः, तदेव चाभिधीयते व्यवच्छिद्यत इति चोच्यते" इति, तान् प्रतीदमाह
ज्ञानाकारनिषेधाच्च 'नान्तरार्थाभिधेयतः॥९७९॥ निराकारा बुद्धिः, आकारवान् बाह्योऽर्थः, स च बहिर्देशसम्बन्धो विस्पष्टमुपलभ्यत इत्येवमस्माभिर्जानाकारो निषिद्धः, तस्मादान्तरस्य बुद्ध्यारूढस्याकारस्यासत्त्वात् तदभिधायकत्वं शब्दानामयुक्तम्। नापि तस्यान्तरस्यार्थस्यापोह्यत्वं युक्तम्; असत्त्वादेव। तेष्विति प्रमेयादिशब्देषु। ये च एवम्', 'इत्थम्' इत्यादयः शब्दाः, तेषामपि न किञ्चिदपोह्यमुपलभ्यते; कस्यचित् प्रतियोगिनः पर्युदासरूपस्याभावात्। अथापि स्यात्-नैवमित्यादि प्रसज्यरूपं निषेध्यं भवतीति? नैतदस्ति; उक्तमत्र। तथा हि अत्रापि- . . .
न चाप्यपोह्यता तस्मानापोहस्तेषु सिध्यति। एवमित्यादिशब्दानां न चापोह्यं निरूप्यते॥९८०॥ "न नैवमिति निर्देशे निषेधस्य निषेधनम्। ...
एवमित्यनिषिद्धं तु स्वरूपेणैव तिष्ठति ॥ (तत्त्व० ९७४) इति सैव पूर्वोक्ता नीतिरवतरति ॥ ९७९-९८०॥ .. एतत् सर्वं कुमारिलोक्तमुपन्यस्तम्। साम्प्रतं सर्वशब्दस्येत्यादिनोद्द्योतकरोक्तमपोहदूषणमाशङ्कते- ..
सर्वशब्दस्य कश्चांर्थो व्यवच्छेद्यः प्रकल्प्यते। नासर्वनाम किञ्चिद्धि भवेद्यस्य निराक्रिया॥९८१॥ एकाद्यसमिति चेत् 'स्वार्थापोहः प्रसज्यते। अङ्गानां प्रतिषिद्धत्वादनिष्टश्चाङ्गिनः पृथक्॥९८२॥ एवं समूहशब्दार्थे समुदायिव्यपोहतः। अन्यानिष्टेश्च सर्वेऽपि प्राप्नुवन्ति निरर्थकाः ॥९८३॥ द्वयादिशब्दा इहेष्टाश्च ये समुच्चयगोचराः।
एकादिप्रतिषेधेन न भवेयुस्तथाविधाः ॥९८४॥ [G.314] स ह्याह-'अपोह:शब्दार्थः' इत्ययुक्तमेतत्; अव्यापकत्वात्। यत्र द्वैराश्यं भवति तत्रेतरप्रतिषेधादितरत् प्रतीयते, यथा-गौरिति पदे गौः प्रतीयमानोऽगौर्निषेध्यमानः, न पुनः सर्वपदे एतदस्ति। न ह्यसर्वं नाम किञ्चिदस्ति, यत् सर्वशब्देन निवत्र्येत! अथ मन्यसेएकाद्यसर्वं तत् सर्वशब्देन निवर्त्यत इति? तन्न; स्वार्थापवाददोषप्रसङ्गात्। एवं ह्येकादिव्युदासेन प्रवर्त्तमानः सर्वशब्दोऽङ्गप्रतिषेधादङ्गव्यतिरिक्तस्याङ्गिनोऽनभ्युपगमादनर्थकः स्यात् । अङ्गशब्देनैकदेश उच्यते। एवं सर्वे समुदायशब्दा एकदेशप्रतिषेधरूपेण प्रवर्त्तमानाः समुदायिव्यतिरिक्तस्यान्यस्य समुदायस्यानभ्युपगमादनर्थकाः प्राप्नुवन्ति। द्वयादिशब्दानां च समुच्चयविषयत्वादेकादिप्रतिषेधे प्रतिषिध्यमानानामर्थानामसमुच्चयत्वादनर्थकत्वम्; तद्दर्शयति-न भवेयु स्तथाविधाइति । यथाविधा इष्टास्ते समुच्चयगोचरास्तथाविधा न भवेयुरित्यर्थः ॥ ९८१-९८४ ॥ १. नान्तरार्थोऽभिधीयते- पा०, गा०।
२. अर्थापोह:- पा०, गा० । ३. विषयसमु०-पा०, गा०।
४. पा०, गा० पुस्तकयो स्ति।