________________
शब्दार्थपरीक्षा
चादीनामपि नञ्योगो नैवास्तीत्यनपोहनम् । वाक्यार्थेऽन्यनिवृत्तिश्च व्यपदेष्टुं न शक्यते ॥ ९७७ ॥ अनन्यापोहशब्दादौ वाच्यं न च विरूप्पयते ।
२६९
प्रमेयज्ञेयशब्दादेरपोह्यं कुत एव तु ॥ ९७८ ॥ आदिशब्देन निमन्त्रणामन्त्रणादीनां ग्रहणम् । अन्यापोहस्य = अन्यव्यवच्छेदस्य न निरूपणमुपलम्भोऽस्ति । "न पर्युदासरूपं हि निषेध्यं तत्र विद्यते" (तत्त्व० ९७३ ) इत्येतत् पूर्वात्तमेवात्र कारणमिति भावः । 'न न पचति देवदत्तः' इत्यादौ नञोऽपरेण नत्रा योगे सति [G.312] कीदृशोऽपोहो भवेत्, नैव कश्चित्, प्रतिषेधद्वयेन विधेरेव संस्पर्शनात् ।
अपि च चादीनां निपातोपसर्गकर्मप्रवचनीयानां पदत्वमिष्टम्, न चैषां नञा सम्बन्धोऽस्ति; असत्त्ववचनत्वात् । तथा हि- यथा घटादिशब्दानाम् ' अघटः' इत्यादौ नञा सम्बन्धे सत्यर्थान्तरस्य पटादेः परिग्रहात् तद्व्यवच्छेदेन नञा रहितस्य घटशब्दस्यार्थोऽवकल्प्यते, न तथा चादीनां नचेत्यादि नञा सम्बन्धोऽस्ति । न चासम्बध्यमानस्य नञाऽपोहनं युक्तम् । अतश्चादिष्वनपोहनम् । अपोहाभाव इत्यर्थः ।
किञ्च–वाक्यार्थः कल्माषवर्णवच्छबलैकरूप इष्यते, अतस्तत्रान्यनिवृत्तिर्व्यपदेष्टं न शक्यते, निष्पन्नरूपस्य प्रतियोगिनोऽप्रतीते: । या चात्र 'चैत्र ! गामानय' इत्यादावचैत्रादिव्यवच्छेदरूपान्यनिवृत्तिरवयवपरिग्रहेण वर्ण्यते, सा पदार्थ एव स्यात्, न वाक्यार्थः । तस्यानवयवस्येत्थं विवेक्तुमशक्यत्वादित्यव्यापिनी शब्दार्थव्यवस्था ।
अपि च- नान्यापोहोऽनन्यापोह इत्यादौ शब्दे विधिरूपादन्यद्वाच्यं न निरूप्यते, नोपलभ्यत इत्यर्थः । तथा हि- नापोहरूपमात्रं वाच्यं गम्यते; प्रतिषेधद्वयेन विधेरेवावसायात् । आदिशब्देनाऽनन्यव्यावृत्तिः, अनन्यव्यवच्छेद इत्यादिपर्यायग्रहणम् । ननु च " नञश्चापि नञा युक्तौ" (तत्त्व० ९७६) इत्यनेनैव गतत्वात् पुनरुक्तमेतत् ? सत्यमेतत्; किन्तु 'अन्यापोहः शब्दार्थ:' इत्येवंवादिना स्ववचनेनैव विधिरिष्ट इति ज्ञापनार्थं पुनरुच्यते । तथा ह्यन्यापोहशब्दस्यानन्यापोहशब्दार्थो व्यवच्छेद्यः, स च विधेर्नान्यो लक्ष्यते । ये च प्रमेयज्ञेयाभिधेयादयः शब्दा:, तेषां न किञ्चिदपोह्यमस्ति; सर्वस्यैव प्रमेयत्वादिस्वभावत्वात् । तथा हि-यन्नाम • किञ्चिद्व्यवच्छेद्यमेषां कल्प्यते, तत् सर्वं व्यवच्छेदाकारेणालम्ब्यमानं ज्ञेयादिस्वभावमेवावतिष्ठते, न ह्यविषयीकृतं व्यवच्छेत्तुं शक्यते । ततश्चैषामपोह्यार्थाभावादव्यापिनी व्यवस्था ।। ९७६-९७८ ।। - ननु हेतुमुखे निर्दिष्टम् - " अज्ञेयं कल्पितं कृत्वा तद्व्यवच्छेदेन ज्ञेयेऽनुमानम् " ) इति, तत्कथमव्यापित्वं शब्दार्थव्यवस्थायाः ? इत्याह
अपोह्यकल्पनायां च वरं वस्त्वेव कल्पितम् ।
यदि ज्ञेयमपि सर्वं ज्ञेयत्वेनापोह्यमस्य कल्प्यते, तदा वरं वस्त्वेव विधिरूपमेव [G.313] शब्दार्थत्वेन विकल्पितं भवेद्, यदध्यवसीयते लोकेन । एवं ह्यदृष्टारोपो दृष्टार्थापलापश्च न कृतः स्यादिति भावः । अत एव 'वरम्' इत्युक्तम्।
१. योग : - जै० ।