________________
२६८
तत्त्वसंग्रहे लिङ्गानि स्त्रीत्वपुंस्त्वनपुंसकानि, सङ्ख्या एकत्वद्वित्वबहुत्वानि। आदिग्रहणेन क्रियाकालादिसम्बन्धपरिग्रहः । एभिः सम्बन्धो नास्त्यपोहस्य; अवस्तुत्वात्, एषां च वस्तुधर्मत्वात्। न च लिङ्गादिविविक्तः पदार्थ: शक्यः शब्देनाभिधातुम् । अतः प्रतीतिबाधाप्रसङ्गः प्रतिज्ञाया इति भावः।
___ अथापि स्याद्-व्यावृत्त्याधारभूताया व्यक्तेर्वस्तुत्वाल्लिङ्गादिसम्बन्धोऽस्ति, एतद्द्वारेणापोहस्यापि व्यवस्थाप्येत? इत्याह
___व्यक्तेश्चाव्यपदेश्यत्वात् तद्द्वारेणापि नास्त्यसौ॥९७२॥
सा हि व्यक्तिनिर्विकल्पत्वाल्लिङ्गसङ्ख्यादिसम्बन्धेन व्यपदेष्टं न पार्यते, ततः कथमपोहे तद्द्वारेण तद्व्यवस्था सिध्येत् ॥ ९७२ ॥ अव्यापित्वं चापोहशब्दार्थव्यवस्थयोर्दर्शयन्नाह
आख्यातेषु च नान्यस्य निवृत्तिः सम्प्रतीयते।
न पर्युदासरूपं हि निषेध्यं तत्र विद्यते॥९७३॥ . . आख्यातेषु तिङन्तेषु पचति, गच्छतीत्येवमादिषु क्रियाप्रधानेषु शब्देषु, नान्यव्यवच्छेदो गम्यते? कस्मात् ? इत्याह- न पर्युदासरूपं हीत्यादि। यथा सुबन्तेषु [G.311] घटादिशब्देषु निष्पन्नरूपमघटादिकं पर्युदासरूपं निषेध्यमस्ति, न तथा पचतीत्यादिषुः प्रतियोगिनो निष्पन्नस्य कस्यचिदप्रतीतेः ॥ ९७३॥. .
. स्यादेतत्-मा भूत् पर्युदासरूपं निषेध्यम्, न प्रचतीत्येवमादि प्रसज्यरूपं पचतीत्यादेर्निषेध्यं भविष्यति? इत्याह
न नेति ह्यच्यमानेऽपि निषेधस्य निषेधनम्। पचतीत्यनिषिद्धं तु स्वरूपेणैव तिष्ठति॥९७४॥ साध्यत्वप्रत्ययश्चात्र तथा भूतादिरूपणम्।
निष्पन्नत्वादपोहस्य निर्निमित्तं प्रसज्यते॥९७५॥ 'न न पचति' इत्येवमुच्यमानेऽपि प्रसज्यप्रतिषेधस्य निषेधनमेवोक्तं स्यात्, ततश्च को दोषः? इत्याह-पचतीत्यनिषिद्धमित्यादि। प्रतिषेधद्वयस्य विधेर्विषयत्वात् पचतीत्येतत् स्वरूपेणैव विध्यात्मनैव तिष्ठतीति विधिरेव शब्दार्थः स्यात्। किञ्च-अत्र पचतीत्यादौ साध्यत्वं प्रतीयते; यस्याः क्रियायाः केचिदवयवा निष्पन्नाः, केचिदनिष्पन्नाः, सा पूर्वापरीभूतावयवा क्रिया साध्यत्वप्रत्ययविषया, तथा 'अभूत्', 'भविष्यति इत्यादौ भूतादिकालविशेषप्रतीतिरस्ति; न चापोहस्य साध्यत्वादिसम्भवः; निष्पन्नत्वादभावैकरसत्वेन। तस्मादपोहशब्दार्थपक्षे साध्यत्वप्रत्ययो भूतादिप्रत्ययश्च निर्निमित्तः प्राप्नोतीति प्रतीतिबाधा। भूतादिरूपणमिति। भूतादीनामवधारणम्, प्रत्यय इति यावत्॥ ९७४-९७५॥ 'पुनरप्यव्यापित्वं दर्शयन् प्रतीतिबाधामेव दर्शयति
विध्यादावर्थराशौ च नान्यापोहनिरूपणम्।
नत्रश्चापि नञा युक्तावपोहः कीदृशो भवेत्॥९७६ ॥ १. ०व्यपदेशत्वात्-जै०।
२. ०व्यापिनं-पा०, गा०।