________________
२६७
शब्दार्थपरीक्षा नैव काचिद् वास्तवी तयोराधेयता सम्भवतीति'; नीरूपस्य क्वचिदवस्थानासम्भवात्, यथा वन्ध्यापुत्रस्येति भावः ॥ ९६९॥
__ किञ्च-भवतु नाम नीलोत्पलादिष्वर्थेषु तयोराधेयता, तथापि सा विद्यमानापि सती न शब्दैः प्रतिपाद्यत इति दर्शयति
न चासाधारणं वस्तु गम्यतेऽन्यच्च नास्ति ते।
अगम्यमानमैकार्थ्यं शब्दयोः क्वोपयुज्यते॥९७०॥ यस्मात् तदेव तावदसाधारणं नीलोत्पलादि वस्तु न शब्देन गम्यते; तत्र सर्वविकल्पानां प्रत्यस्तमयादित्युक्तम्। ततश्च तस्मिन्नाधारभूते वस्तुन्यज्ञाते तदधिकरणयोरपोहयोस्तदाधेयता कथं ग्रहीतुं शक्यते, धर्मिग्रहणनान्तरीयकत्वाद् धर्मग्रहणस्येति भावः।
____ अथापि स्यात्-असाधारणार्थव्यतिरेकेण तयोरन्यदेवाधिकरणमस्ति, अतोऽयमदोष इत्यत आह- अन्यच्चेत्यादि। त इति तव । स्यादेतद्-यदि नामैकार्थ्यं न गम्यते, तथापि वस्तुस्थित्याऽवस्थितमेवेत्याह-अगम्यमानमित्यादि। ऐकायमिति सामानाधिकरण्यम्। क्वोपयुज्यत इति क्वचिदित्यर्थः । सतोऽप्यज्ञातस्य शाब्दे व्यवहारेऽनङ्गत्वात् ।। ९७० ॥
* अथापि स्यात्- यदि व्यावृत्तिमात्रं शब्देनोच्येत तदाऽयं दोषः स्यात्, यावता व्यावृत्तिमद्वस्तु वाच्यम्, अतो व्यावृत्तिद्वयोपाधिकयोः शब्दयोरेकस्मिन्नपोहवति वस्तुनि वृत्तेः सामानाधिकरण्यमस्त्येव? इत्यत आह
अथान्यापोहवरे वस्तु वाच्यमित्यभिधीयते।
तत्रापि परतन्त्रत्वाद् व्याप्तिः शब्देन दुर्लभा॥९७१॥ तत्रापति। अपोहवति वस्तुनि वाच्यत्वेनाङ्गीक्रियमाणेऽनीलादिभेदानामुत्पलादीनां नीलादिशब्दैर्व्याप्तिः=आक्षेपो दुर्लभः, किं. कारणम्? परतन्त्रत्वान्नीलादिशब्दस्य, [G.310] स हि व्यावृत्तयुपसर्जनं तद्वन्तमर्थमाह, न साक्षात्। ततश्च साक्षादनभिधानात् तद्गतभेदाक्षेपो नास्ति, यथा-मधुरशब्देन शुक्लादेः । यद्यपि वस्तुस्थित्या शुक्लादीनां मधुरादिभेदत्वमस्ति, तथापि शब्दस्य साक्षादभिहितार्थगतस्यैव भेदस्याक्षेपसामर्थ्यम्, न तु पारतन्त्र्येणाभिहितार्थगतस्येति भावः । ततश्च नीलादिशब्देन तद्गतभेदानापेक्षादुत्पलादीनामतद्भेदत्वं स्यात्, अतद्भेदत्वे च सामानाधिकरण्यं न प्राप्नोति। तेन जातिमन्मात्रपक्षे यो दोष उक्तो भवता-"तद्वतो न वाचक: शब्दोऽस्वतन्त्रत्वात्" इति, स व्यावृत्तिमन्मात्रपक्षेऽपि तुल्य इति दर्शितं भवति। तथा हि-जातिमन्मात्रे शब्दार्थे-सच्छब्दो जातिस्वरूपोपसर्जनं द्रव्यमाह, न साक्षादिति तद्गतघटादिभेदानाक्षेपादतद्भेदत्वे सामानाधिकरण्याभावप्रसङ्ग उक्तः, स व्यावृत्तिमन्मात्रपक्षेऽपि समानः; तत्रापि हि सच्छब्दो व्यावृत्त्युपसर्जनं द्रव्यमाह, न साक्षात् इति तद्गतभेदानाक्षेपोऽत्रापि समान एव, को पत्र विशेषः-जातिया॑वृत्तिः, जातिमान्व्यावृत्तिमानिति !॥ ९७१ ॥ दोषान्तरमाह
लिङ्गसङ्ख्यादिसम्बन्धो न चापोहस्य विदयते। १. सम्भवति-पा०, गा०। . २. त-पा०।
३. अथाप्यपोहवद्-पा०, गा० । ४. अमधुरादि०-गा०।
५. जातिमत इत्यर्थः। ६. बाधक:-पा०, गा० ।