________________
२६६
तत्त्वसंग्रहे अपोहमात्रवाच्यत्वं यदि' वाभ्युपगम्यते । नीलोत्पलादिशब्देषु शबलार्थाभिधायिषु॥९६६॥ विशेषणविशेष्यत्वसामानाधिकरण्ययोः । न सिद्धिर्न हनीलत्वव्युदासेऽनुत्पलच्युतिः॥९६७॥ . नापि तत्रेतरस्तस्मान्न विशेष्यविशेषणे।
शब्दयो पि ते स्यातामभिधेयानपेक्षयोः ॥९६८॥ [G.308] पूर्वमर्थयोरेव विशेष्यविशेषणभावो निरस्तः । इदानीं शब्दयोरपि निरस्यत इति न पुनरुक्तता। तत्र परस्परं व्यवच्छेद्यव्यवच्छेदकभावो विशेषणविशेष्यभावः, स च वाक्य एव व्यवस्थाप्यते, यथा- नीलमुत्पलमिति। तथा व्यधिकरणयोरपि भवति, यथा-राज्ञः पुरुष इत्यादौ । भिन्ननिमित्तप्रयुक्तयोस्त्वेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् तच्च नीलोत्पलमित्यादौ वृत्तावेव व्यवस्थाप्यते। तत्र नीलोत्पलादिशब्देषु शबलार्थाभिधायिषु यदेतत् सामानाधिकरण्यादि, तस्य न सिद्धिः । शबलोऽर्थः चित्रः, यथोक्तम्-..
"न हि तत् केवलं नीलं न च केवलमुत्पलम्। . . समुदायाभिधेयत्वात्"
॥( ) इति । कस्मात् सिद्धिर्न भवति? इत्याह-न हीत्यादि। यस्मादनीलत्वव्युदासेऽनुत्पलब्युदासो नास्ति । नापि तत्र अनुत्पलच्युतौ। इतर: नीलव्युदासः । क्वचिदितरेति स्त्रीलिङ्गस्य पाठः। स च्युतिशब्दापेक्षाया द्रष्टव्यः। इतरा-अनीलच्युतिरित्यर्थः । नानयोः परस्परमाधाराधेयसम्बन्धोऽस्ति, नीरूपत्वादिति यावत्। न चासति सम्बन्धे विशेष्यविशेषणभावो युक्तः; अतिप्रसङ्गादित्युक्तम् । एतेन युष्मन्मते शबलार्थाभिधायित्वमेव नास्ति, सर्वेषामभाववाचित्वादित्युक्तं भवति। तस्मान्न विशेष्यविशेषणे युक्ते।
स्यादेतत्-मा भूदर्थयोर्विशेष्यविशेषणभावः, तद्वाचकयोस्तु शब्दयोः किमिति न भवतीत्यत आह- शब्दयोरित्यादि। अभिधेयद्वारेणैव हिं तदभिधायिनो: शब्दयोर्विशेष्यविशेषणभाव उपचर्यते, अभिधेये च तस्यासम्भवे सत्यभिधानेऽपि कुतस्तदारोपः ॥ ९६६-९६८ ॥ सामानाधिकरण्यं दूषयन्नाह
सामानाधिकरण्यं च न भिन्नत्वादपोहयोः।
अर्थतश्चेत् तदिष्येत कीदृश्याधेयता तयोः॥९६९॥ एकस्मिन्नर्थे वृत्तौ सत्यां सामानाधिकारण्यं भवति, न च नीलोत्पलशब्दयोरेकस्मिनर्थे [G.309] वृत्तिः सम्भवति; तद्वाच्ययोरनीलानुत्पलव्यवच्छेदलक्षणयोरपोहयोभिन्नत्वात् । तथा हि भवद्भिरेवोक्तम्- "अपोह्यभेदाद्भिन्नार्थाः" इति । प्रयोगः-न नीलोत्पलादिशब्दाः सामानाधिकरण्यव्यवहारविषयाः; भिन्नविषयत्वात्, घटपटादिशब्दवत्। अथापि स्याद्यत्रैव ह्यनुत्पलव्युदासो वर्त्तते, तत्रैवानीलव्युव्युदासोऽपि स्थित इत्यतो नीलोत्पलशब्दवाच्ययोरपोहयोरेकस्मिन्नर्थे वृत्तेरर्थद्वारकं सामानाधिकरण्यं शब्दयोरपि निर्दिश्यते? इत्यत आह- अर्थतश्चेत्यादि। तदिति सामानाधिकरण्यम्। तयोरिति अनीलानुत्पलब्युदासयोः। १-१. यदिहा०- पा०, गा०;
२. व्यवच्छेदकभावो- पा०, गा० । ३. समास इत्यर्थः।
४. पा०. गा० पस्तकयो स्ति।