________________
२६५
शब्दार्थपरीक्षा तदेवं प्रतिज्ञायाः प्रतीत्यभ्युपेतबाधा प्रतिपादिता। साम्प्रतं वाच्यवाचकत्वाभावप्रसङ्गापादनाभ्युपेतबाधादिदोषं प्रतिपिपादयिषुः प्रमाणयन्नाह
__न गम्यगमकत्वं स्यादवस्तुत्वादपोहयोः ।
भवत्पक्षे यथा लोके खपुष्पशशशृङ्गयोः॥९६३॥ [G.307] ये अवस्तुनी न तयोर्गम्यगमकत्वमस्ति, यथा खपुष्पशशशृङ्गयोः, अवस्तुनी च वाच्यवाचकापोहौ भवेतामिति व्यापकविरुद्धोपलब्धेः ॥ ९६३॥ ननु च मेघाभावाद् वृष्टयभावप्रतीतेरनैकान्तिकता हेतोरित्याह
वृष्टिमेघासतोदृष्ट्वा यद्यनैकान्तिकं वदेत्।
वस्त्वस्त्वेवात्र मत्पक्षे भवत्पक्षेऽप्यदः कुतः॥९६४॥ वृष्टिमेघयोरसती असत्त्वे, अभावाविति यावत् । भावप्रधानत्वानिर्देशस्येति' वृष्टिमेघासती तयोर्दृष्ट्वा । गम्यगमकमित्यधिकृतम् । यद्यनैकान्तिकमवस्तुत्वादिति हेतुं वदेद् बौद्धः, तदप्ययुक्तम्; यस्मात् तद्विविक्ताकाशालोकात्मकं वस्तु मत्पक्षेऽत्रापि वृष्टिमेघाभावप्रयोगेऽस्त्येव; अभावस्य वस्तुत्वप्रतिपादनात्। भवतस्तु बौद्धस्य पक्षे अदोऽपि= एतदृष्टिमेघाभावयोर्गम्यगमकत्वं कुतः नैव। अपिशब्दो भिन्नक्रमः अदः' इत्यस्यानन्तरं सम्बध्यते। अनेनायमर्थोरे भवति-न केवलमपोहयोर्विवादास्पदीभूतयोर्गम्यगमकत्वं भवतो न युक्तम्, एतदपि वृष्टिमेघाभावयोर्गम्यगमकत्वं न युज्यत एवेति ॥ ९६४॥
किञ्च-यदेतद् भवद्भिरन्वयोपसर्जनयोर्व्यतिरेकप्रधानयोः शब्दलिङ्गयोः स्वविषयप्रतिपादकत्वं वर्ण्यते, यच्च- . . . . "अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात्।
. श्रुतेः सम्बन्धसौकर्यं न चास्ति व्यभिचारिता" ( ) इत्यादि वर्णितम्, तदपोहाभ्युपगमे न युक्तमित्येतत् प्रतिपादयन्नाह
- विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते।
. न भवेद् व्यतिरेकोऽपि तस्य तत्पूर्वको ह्यसौ॥९६५॥
तत्पूर्वके इति विधे: पूर्वकः । विधेर्निवृत्तिलक्षणत्वाद्व्यतिरेकस्येति भावः। किञ्चनीलोत्पलादिशब्दानां विशेषणविशेष्यभावः सामानाधिकरण्यं च यदेतल्लोकप्रतीतं तस्यापह्नवोऽपोहवादे प्राप्नोति ॥ ९६५ ॥ .. . यच्चेदमुच्यते विशेषविशेष्यत्वसामानाधिकरण्यसमर्थनार्थम्
"अपोह्यभेदाद्भिन्नार्थाः स्वार्थभेदगतौ जडाः। एकत्राभिन्नकार्यत्वाद् विशेषणविशेष्यकाः॥ तन्नात्राकाङ्क्षणाद्भेदः स्वसामान्येन नोज्झितः।
नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तयोः" ३ ॥ ( . ) इति। तदेतन्नोपपद्यत इति दर्शयन्नाह१-१. निर्देशस्य-पा०, गा०।
२. तेनाय०-पा०, गा० । ३. विशेषणविशेष्यकयो: शाब्दयोरित्यर्थः।