Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 299
________________ शब्दार्थपरीक्षा २७३ तस्माद्येष्वेव शब्देषु नज्योगस्तेषु केवलम्। भवेदन्यनिवृत्त्यंशः स्वात्मैवान्यत्र गम्यते॥१००१॥ येष्वेव शब्देषु नज्योग इति। अभक्ष्यो ग्रामसूकरः' इत्यादिषु। स्वात्मैवेति । स्वरूपमेव विधिलक्षणम्। अन्यत्रेति नरहिते॥१०००-१००१॥ उत्तरपक्षः एवं यथाप्रधानं परमतमाशङ्कय, अन्यापोहापरिज्ञानादित्यादिना समाधानमारभते अन्यापोहापरिज्ञानादेवमेते कुदृष्टयः। स्वयं नष्टा' दुरात्मानो नाशयन्ति परानपि। १००२॥ तथा हि द्विविधोऽपोहः पर्युदासनिषेधतः। द्विविधः पर्युदासोऽपि बुद्ध्यात्मात्मभेदतः॥१००३॥ पर्युदासनिषेधत इति पर्युदासात्, निषेधाच्च। पर्युदासलक्षणः, प्रसज्यप्रतिषेधश्चेति [G.317] यावत्। बुद्ध्यात्मार्थात्मभेदत इति। बुद्ध्यात्मभेदात्, अर्थात्मभेदादित्यर्थः । तत्र बुद्ध्यात्मा-बुद्धिप्रतिभासोऽर्थेष्वनुगतैकरूपत्वेनाध्यवसितः; अर्थात्मा अर्थस्वभावः, विजातीयव्यावृत्तमर्थस्वलक्षणमित्यर्थः । अनयोंर्भेदः विभाग इति समासः ॥ १००२-१००३ ॥ तत्र बुद्ध्यात्मनः स्वयरूपं दर्शयन्नाह एकप्रत्यवमर्शस्य य उक्ता हेतवः पुरा। अभयादिसमा अर्थाः प्रकृत्यैवान्यभेदिनः ॥१००४॥ तानुपाश्रित्य यज्ज्ञाने भात्यर्थप्रतिबिम्बकम्। कल्पकेऽर्थात्मताऽभावेऽप्यर्था इत्येवं निश्चितम्॥१००५॥ पुरेति। पूर्व सामान्यपरीक्षायाम् "यथा धात्र्यभयादीनाम्" (तत्त्व० ७२२) इत्यादिनोक्ताः । तत्रोक्तम्-यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यमेकं ज्वरादिशमनलक्षणं कार्यं कुर्वन्ति, तथा शाबेलयादयोऽप्यर्थाः सत्यपि भेदे प्रकृत्यैकाकारप्रत्यवमर्शस्य हेतवो भविष्यन्त्यन्तरेणापि वस्तुभूतं सामान्यमिति। अभयादिसमाइति। हरीतक्यादितुल्या: एकार्थकारितया साम्यम्। तानुपाश्रित्येति । तानभयादिसमानार्थानाश्रित्य हेतूकृत्य तदनुभवबलेन यदुत्पन्नं विकल्पकं ज्ञानं तत्र यंदाकारतयार्थप्रतिबिम्बकमर्थाभासो भाति तादात्म्येन, तत्र 'अन्यापोहः' इत्येषा संज्ञोक्तेति सम्बन्धः । कल्पक इति। विकल्पके, सविकल्प इति यावत्। एतच्च ज्ञान इत्यनेन समानाधिकरणम्। अर्थात्मताऽभावेऽपति। बाह्यार्थात्मताय अभावेऽपि। निश्चितमिति अध्यवसितम्॥ १००४-१००५॥ अथ कथं तस्यापोह इत्येष व्यपदेशः? इत्याह प्रतिभासान्तराद् भेदादन्यव्यावृत्तवस्तुनः । प्राप्तिहेतुतयाऽश्रिष्टवस्तुद्वारा गतेरपि॥१००६॥ चतुर्भिनिमित्तैरपोह इति तस्याख्या। विकल्पान्तरारोपितप्रतिभासान्तराद् भेदेन स्वर, प्रतिभासनान्मुख्यतः; अपोह्यत इत्यपोहः, अन्यस्मादपोहोऽन्यापोह इति व्युत्पत्तेः । [G.3181 १. तुष्टा-पा०,गा०।

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444