Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 302
________________ २७६ तत्त्वसंग्रहे ! त्मके स्वार्थेऽर्थान्तरव्यवच्छेदं प्रतिबिम्बान्तराट्यावृत्तं प्रतिबिम्बात्मकमपोहं कुर्वती जनयन्ती श्रुतिरभिधत्त इत्युच्यते इत्येतदाचार्गीयं वचनमविरोधि ॥ १०१५ ॥ बाह्यार्थेत्यादिनैतदेवाचार्यायं वचनं व्याचष्टे बाह्यार्थाध्यवसायेन प्रवृत्तं प्रतिबिम्बकम्। उत्पादयति येनेयं . तेनाहेत्यपदिश्यते॥१०१६॥ न तु स्वलक्षणात्मानं स्पृशत्येषा विभेदिनम्। तन्मात्रांशातिरेकेण नास्त्यस्या अभिधाक्रिया॥१०१७॥ - अयमाचार्यस्याभिप्रायः- न शब्दस्य बाह्यार्थाध्यवसायिविकल्पप्रतिबिम्बोत्पादव्यतिरेकेणान्यो बाह्याभिधानव्यापारः सम्भवति; निर्व्यापारत्वात् सर्वधर्माणाम्। अतो बाह्यार्थाध्यवसायेन प्रवृत्तविकल्पप्रतिबिम्बं जनयन्ती श्रुतिः स्वार्थमभिधत्त इत्युच्यत इति। नतु विभेदिनं सजातीयविजातीयव्यावृत्तं स्वलक्षणमेषा स्पृशति; अकिञ्चित्करत्वात्। तन्मात्रां शातिरेकेणेति। तथाविधप्रतिबिम्बजनकत्वव्यतिरेकेण नापरा श्रुतेरभिधाक्रियाऽस्तीत्यर्थः ॥१०१६-१०१७॥ एवमपोहस्य स्वरूपमभिधाय साम्प्रतं.परोक्तानि दूषणान्युद्धर्तुमारभते । तत्र यदुक्तम्"यदि गौरिति शब्दश्च " (तत्त्व० ९११) इत्यादि, तत्राह- . तस्य च प्रतिबिम्बस्य गतावेवावगम्यते। सामर्थ्यादन्यविश्रूषो नास्यान्यात्मकता यतः॥१०१८॥ गोबुद्धिमेव हि शब्दो जनयति, अन्यविशेषस्तु सामर्थ्याद् गम्यते, न तु शब्दात्; तस्य गोप्रतिबिम्बस्य प्रतिभासान्तरात्मरहितत्वात्, अन्यथा नियतरूपस्य तस्य प्रतिपत्तिरेव [G.321] न स्यात्। तेनापरो ध्वनिर्गोबुद्धेर्जनको न मृग्यते। तेनैव गोशब्देन गोबुद्धेर्जन्यमानत्वात् ॥१०१८॥ "न तु ज्ञानफलाः शब्दाः" (तत्त्व० ९१२) इत्यादावाह दिवाभोज़नवाक्यादेरिवास्यापि फलद्वयम्। साक्षात् सामर्थ्यतो यस्मानान्वयोऽव्यतिरेकवान्॥१०१९॥ यथा हि- 'दिवा न भुते पीनो देवदत्तः' इत्यस्य वाक्यस्य साक्षाद्दिवाभोजनप्रतिषेधः स्वार्थाभिधानम्, गम्यस्तु रात्रिभोजनविधिः, न साक्षात्; तद्वद् गौरित्यादेरन्वयप्रतिपादकस्य शब्दस्यान्वयज्ञानं साक्षात् फलम्। व्यतिरेकगतिस्तु सामर्थ्यात् । अत्र कारणमाहयस्मादित्यादि। यस्मादन्वयो विधेरव्यतिरेकवान्नास्ति, किं तर्हि ? विजातीयव्यवच्छेदाव्यभिचार्येव। न हि विजातीयादव्यावृत्तस्य कस्यचित् सम्भवोऽस्ति, तेनैकस्य शब्दस्य फलद्वयमविरुद्धमेव ॥ १०१९ ॥ कस्मात्? इत्याह नाभिमुख्येन कुरुते यस्माच्छब्द इदं द्वयम्। १. वचनमाचष्टे- पा०, गा०/ २. गतावेवागम्यते- पा०, गा०।

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444