Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 280
________________ २५४ तत्त्वसंग्रहे शाबलेयादि-पिण्डेषु यत्प्रत्येकं परिसमाप्तं तन्निबन्धना गोबुद्धिः । तच्च गोत्वाख्यमेव सामान्यम्। तस्यागोऽपोहशब्देनाभिधानात् केवलं नामान्तरमित्यतः सिद्धसाध्यता प्रतिज्ञादोषः ॥९१६९१७॥ अथ प्रसज्यलक्षणमिति पक्षः? तत्राह निषेधमात्ररूपश्च शब्दार्थों यदि कल्प्यते। अभावशब्दवाच्या' स्याच्छून्यताऽन्यप्रकारिका' ॥९१८॥ अभावशब्दवाच्येति। अगोऽपोहलक्षणोऽभाववाचक: शब्दोऽभावशब्दः, तद्वाच्या बहिरर्थशून्यता स्यात्, वस्तुरूपापह्नवात्। अन्यप्रकारिकेति । पूर्व विज्ञानमात्रवादोपन्यासकाले भवद्भिपन्यस्ता, निरस्ता चास्माभिः, पुनरप्यत्र शब्दार्थचिन्ताप्रस्तावेसैवापोहव्याजेनाभिहिता; प्रतीतिसिद्धस्यार्थस्यापवादात्॥ ९१८ ॥ ततश्च को दोषः? इत्याह तस्यां चाश्वादिबुद्धीनामात्मांशग्रहणं भवेत् । तत्रान्यापोहवाच्यत्वं मुधैवाभ्युपगम्यते ॥ ९१९॥ तस्याम्=शून्यतायां वाच्यायाम, शाब्दीनामश्वादिबुद्धीनामात्मांशग्रहणं प्राप्नोति, बाह्यवस्तुस्वरूपाग्रहात्। एवं च सति को दोषः? इत्याह-तत्रेत्यादि । तत्रैवं स्थिते सति, अपोहस्य वाच्यत्वं मुधैवाभ्युपगतं स्यात्; बुद्ध्याकारस्यानपेक्षितबाह्यार्थावलम्बनस्य विधिरूपस्यैव शब्दार्थत्वापत्तेः । ततश्चाभ्युपगमबाधा प्रतिज्ञाया इति भावः ॥ ९१९ ।। एतदेव दर्शयति सामान्य वस्तुरूपं हि बुद्ध्याकारो भविष्यति। शब्दार्थोऽर्थानपेक्षा हि वृथापोहः प्रकल्पितः ॥९२०॥ [G.294] बुद्ध्याकार एव वस्तुरूपं सामान्यं शब्दार्थो भविष्यतीति सम्बन्धः ॥ ९२०॥ स्यादेतद्-अनालम्बनापि सा बुद्धिर्विजातीयगवादिबुद्धिभ्यो व्यावृत्तरूपा प्रवर्तते, तेनापोहकल्पना युक्तैव? इत्यत आह- . वस्तुरूपा च सा बुद्धिः शब्दार्थेषूपजायते। तेन वस्त्वेव कल्प्येत वाच्यं बुद्ध्यनपोहकम् ॥९२१॥ वस्तुरूपेत विधिरूपावसायिनी। सा बुद्धिरिति। अनालम्बना अश्वादिबुद्धिः । शब्दार्थे ष्विति अश्वादिष्वध्यवसितेषु । वस्त्वेवेति अश्वादिपिण्डाध्यवसायिबुद्ध्यात्मकम्। अवधारणफलं दर्शयति-बुद्ध्यनपोहकमिति। अविद्यमानोऽपोहो यत्र वाच्ये बुद्ध्यात्मके वस्तुनि तत्तथोक्तम् । बुद्धेरनपोहकम्, बुद्ध्यन्तरापोहरहितमित्यर्थः । अथ वाअपोहत इत्यपोहकम्, नापोहकमनपोहकम्, बुद्धेरनपोहकं बुद्ध्यनपोहकमिति समासः । एतदुक्तं भवति–यद्यपि बुद्धिर्बुद्ध्यन्तराद् व्यवच्छिन्ना, तथापि सा न बुद्ध्यन्तरव्यव१-१. अभावशब्द.....-पा०। २. ०लक्षणाभाववाचक:- गा०। ३-३. .....कारो-पा०/ ४-४. शब्दार्थ..... प्रकल्पित:-पा०,गा० । ५. तेषु-पा०, गा०/ ६-६. पा० पुस्तके नास्ति।

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444