________________
२५४
तत्त्वसंग्रहे शाबलेयादि-पिण्डेषु यत्प्रत्येकं परिसमाप्तं तन्निबन्धना गोबुद्धिः । तच्च गोत्वाख्यमेव सामान्यम्। तस्यागोऽपोहशब्देनाभिधानात् केवलं नामान्तरमित्यतः सिद्धसाध्यता प्रतिज्ञादोषः ॥९१६९१७॥ अथ प्रसज्यलक्षणमिति पक्षः? तत्राह
निषेधमात्ररूपश्च शब्दार्थों यदि कल्प्यते।
अभावशब्दवाच्या' स्याच्छून्यताऽन्यप्रकारिका' ॥९१८॥ अभावशब्दवाच्येति। अगोऽपोहलक्षणोऽभाववाचक: शब्दोऽभावशब्दः, तद्वाच्या बहिरर्थशून्यता स्यात्, वस्तुरूपापह्नवात्। अन्यप्रकारिकेति । पूर्व विज्ञानमात्रवादोपन्यासकाले भवद्भिपन्यस्ता, निरस्ता चास्माभिः, पुनरप्यत्र शब्दार्थचिन्ताप्रस्तावेसैवापोहव्याजेनाभिहिता; प्रतीतिसिद्धस्यार्थस्यापवादात्॥ ९१८ ॥ ततश्च को दोषः? इत्याह
तस्यां चाश्वादिबुद्धीनामात्मांशग्रहणं भवेत् ।
तत्रान्यापोहवाच्यत्वं मुधैवाभ्युपगम्यते ॥ ९१९॥ तस्याम्=शून्यतायां वाच्यायाम, शाब्दीनामश्वादिबुद्धीनामात्मांशग्रहणं प्राप्नोति, बाह्यवस्तुस्वरूपाग्रहात्। एवं च सति को दोषः? इत्याह-तत्रेत्यादि । तत्रैवं स्थिते सति, अपोहस्य वाच्यत्वं मुधैवाभ्युपगतं स्यात्; बुद्ध्याकारस्यानपेक्षितबाह्यार्थावलम्बनस्य विधिरूपस्यैव शब्दार्थत्वापत्तेः । ततश्चाभ्युपगमबाधा प्रतिज्ञाया इति भावः ॥ ९१९ ।। एतदेव दर्शयति
सामान्य वस्तुरूपं हि बुद्ध्याकारो भविष्यति।
शब्दार्थोऽर्थानपेक्षा हि वृथापोहः प्रकल्पितः ॥९२०॥ [G.294] बुद्ध्याकार एव वस्तुरूपं सामान्यं शब्दार्थो भविष्यतीति सम्बन्धः ॥ ९२०॥
स्यादेतद्-अनालम्बनापि सा बुद्धिर्विजातीयगवादिबुद्धिभ्यो व्यावृत्तरूपा प्रवर्तते, तेनापोहकल्पना युक्तैव? इत्यत आह- .
वस्तुरूपा च सा बुद्धिः शब्दार्थेषूपजायते।
तेन वस्त्वेव कल्प्येत वाच्यं बुद्ध्यनपोहकम् ॥९२१॥ वस्तुरूपेत विधिरूपावसायिनी। सा बुद्धिरिति। अनालम्बना अश्वादिबुद्धिः । शब्दार्थे ष्विति अश्वादिष्वध्यवसितेषु । वस्त्वेवेति अश्वादिपिण्डाध्यवसायिबुद्ध्यात्मकम्।
अवधारणफलं दर्शयति-बुद्ध्यनपोहकमिति। अविद्यमानोऽपोहो यत्र वाच्ये बुद्ध्यात्मके वस्तुनि तत्तथोक्तम् । बुद्धेरनपोहकम्, बुद्ध्यन्तरापोहरहितमित्यर्थः । अथ वाअपोहत इत्यपोहकम्, नापोहकमनपोहकम्, बुद्धेरनपोहकं बुद्ध्यनपोहकमिति समासः । एतदुक्तं भवति–यद्यपि बुद्धिर्बुद्ध्यन्तराद् व्यवच्छिन्ना, तथापि सा न बुद्ध्यन्तरव्यव१-१. अभावशब्द.....-पा०।
२. ०लक्षणाभाववाचक:- गा०। ३-३. .....कारो-पा०/
४-४. शब्दार्थ..... प्रकल्पित:-पा०,गा० । ५. तेषु-पा०, गा०/
६-६. पा० पुस्तके नास्ति।