________________
शब्दार्थपरीक्षा
- २५३ सामान्यं गोशब्देन वाच्यमित्येवमिष्यते, भवता चागोनिवृत्तिलक्षणं सामान्यं गोशब्देनोच्यत इति ब्रुवता तदेव शब्दान्तरेणाभिधीयते इति केवलं नाम्नि विवादः ।। ९१४ ॥ अथ कथं तदेव शब्दान्तरेणाभिहितम्? इत्याह
• भावान्तरात्मकोऽभावो येन सर्वो व्यवस्थितः।
तत्राश्वादिनिवृत्तात्माऽभावः क' इति कथ्यताम् ॥९१५॥ येन यस्मात् प्रागभावादिलक्षणश्चतुर्विधः सर्व एवाभावो भावान्तरात्मको व्यवस्थितः। यच्चोक्तम्
"क्षीरे दध्यादि यन्नास्ति प्रागभावः स कथ्यते॥ नास्तिता पयसो दनि प्रध्वंसाभावक्षणम्। गवि 'योऽश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते॥ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः। शशशृङ्गादिरूपेण . सोऽत्यन्ताभाव उच्यते॥ न चावस्तुन एते. स्युर्भेदास्तेनास्य वस्तुता।"
. (थो० वा०, अभा० २-४,८) इति । एतेन क्षीरादय एव च दध्यादिरूपेणाविद्यमानाः प्रागभावादिव्यपदेशभाज इति दर्शितं भवति। तत्रैवमभावस्य भावान्तरात्मकत्वे स्थिते सति कोऽयं भवद्भिरश्वादिनिवृत्तिस्वभावोऽभावोऽभिप्रेत इति कथ्यताम्॥९१५ ॥
स्यान्मतम्-किमत्र कथ्यते, गवादिस्वलक्षणात्मैवासौ? इत्यत आह
. नेष्टोऽसाधारणस्तावद् "विशेषो निर्विकल्पनात्।
योऽसावधारणो विशेषः सोऽश्वदिनिवृत्त्यात्मा नेष्टो भवताम् । कस्मात्? इत्याहनिर्विकल्पनात्। तत्र सर्वविकल्पप्रत्यस्तमयात्। विकल्पज्ञानगोचरः सामान्यमेवेष्यते, [G.293] असाधारणस्त्वर्थः सर्वविकल्पानामगोचरः । यथोक्तम्-"स्वसंवेद्यमनिर्देश्यं रूपमिन्द्रियगोचरः" ( . . ) इति । विशेषात्मकत्वे कारणमसाधारणात्मकता, असाधारणात्मतया यो विशेषः इत्यर्थः।
एमविशेषेणोक्तम्। साम्प्रतं विशेषेणैनमेवार्थमाह...तथा च शाबलेयादिरसामान्यप्रसङ्गतः ॥९१६॥
तस्मात् ५सर्वेष्वयद्रूपं प्रत्येकं प्रतिनिष्ठितम्। - गोबुद्धिस्तन्निमित्ता स्या गोत्वादन्यच्च नास्ति तत् ॥९१७॥ यथैव भवतामसाधारणो विशेषोऽश्वादिनिवृत्त्यात्मा गोशब्दाभिधेयो नेष्टः, तथैव शाबलेयादि: शाबलेयादिशब्दवाच्यतया नेष्टः । अश्वादिनिवृत्त्यात्माऽभाव' इत्यत्राप्यनुवर्तते। कस्मात्? इत्याह-असामान्यप्रसङ्गत इति। यदीष्येत, तदा सामान्यं शब्दवाच्यं न स्यात्; तस्यानन्वयात्। यत एवमश्वादिनिवृत्त्यात्मा भावोऽसाधारणो न घटते, तस्मात् सर्वेषु सजातीयेषु १. स-पा०। २. ह्यश्वा०-पा०,गा।
३. ०रूपाण-गा। ४. पा० पुस्तके नास्ति; • साधारणात्मा वा-गा०। ५.सर्वेषु यद्रूपं- पा०, गा०। ६-६. स्या स्ति-पा०, गा० । ७. पा०,गा० पुस्तकयो स्ति। ८. अश्वादिनिवृत्त्या भाव-जै०।